________________
(७२)
AAAAAAAAAAAAAAAAN
अनेकार्थसंग्रहः सटीकः जरठः कर्कशे जीर्णे नर्मठो षिड्गचूचुकौ । प्रकोण्ठः कर्णराधस्ताद्भपकक्षान्तरेऽपि च ॥१६४॥ हस्ते च विस्तृतकरे प्रतिष्ठागौरवे स्थितौ ।
छन्दोजातो यागसिद्धौ मत्कुष्ठौ धान्यमन्थरौ ॥१६५।। मनोवृत्तिः पार्श्वनाथः श्रियेऽस्तु वः । मुनिभाजने यथा-भुक्ते मठे कमठपाणिरसौ मुनीन्द्रः ॥१६३॥ जरठः कर्कशे जीर्णे । जीर्यति जरठः “मृ ज़ श” (उ० १६७) इति अठः । कर्कशे गुणे पुंसि तद्वति जीर्णे च वाच्यलिङ्गः। द्वयोर्यथा-अयमति जरठाः प्रकामगुर्वीरलघुविलम्बिपयोधरोपरुद्धाः । नर्मठौ षिड्गचूचुको। नर्मणि तिष्ठति नर्मठः । पृषोदरादित्वात् । षिड्गो विटः । चूचुकं स्तनमुखम् । द्वयोर्यथा-नर्मठः कामकर्मठः । प्रकोष्ठः कूपराधस्ताद्भपकक्षान्तरेऽपि च । हस्ते च विस्तृतकरे । प्रकुष्णाति प्रकुष्यते वा प्रकोष्ठः । “कुषेर्वा" (उ०१६४) इति ठः। कूपराधस्तात् कूपराधोभागे कलाचिकायां यथा-कनकवलय-भ्रंसरिक्त-प्रकोष्ठः । भूपकक्षान्तरे यथा-वल्गन्ति वाहाः प्रथमप्रकोष्ठे ।।१६४॥ विस्तृतकरे हस्ते यथा-गोष्ठप्रकोष्ठमिमते हि काष्ठम् । प्रतिष्ठा गौरवे स्थितौ छन्दोजातौ यागसिद्धौ। प्रतिष्ठानं प्रतिष्ठीयतेऽनया वा प्रतिष्ठा । "उपसर्गादातः" (५-३-११०) इत्यड्। गौरवे स्थितौ च यथा-विपक्ष मखिलीकृत्य प्रतिष्ठा खलु दुर्लभा । अनीत्वा पङ्कतां धूलिमुदकं नावतिष्ठते । छन्दोजातिश्चतुरक्षरा तत्र यथाउक्तात्युक्ता तथा मध्या प्रतिष्ठा सुप्रतिष्ठिका । यागसिद्धौ यथाएष वै प्रतिष्ठा नाम यज्ञः । मर्यादा देवादिस्थापनयोरपि मङ्खः । मर्यादायां यथा-कृतप्रतिष्ठा निवसन्ति सन्तः । देवादिस्थापने