________________
तृतीयः काण्ड:
-
द्विरदस्य च योषायां कर्णिकारतरावपि । कारणं घातने हेतौ करणे कारणा पुनः ।।१८७।। यातना कार्मणं मन्त्रादियोगे कर्मकारके ।
काकणी मानदण्डस्य तुरीयांशे पणस्य च ॥१८८।। घण्टाः सहस्रशः ॥ ॥१८६।। द्विरदस्य योषायां हस्तिन्यां यथा-ददौ सरः पङ्कजरेणुगन्धिगजाय गण्डूषजलं करेणुः । कारणं घातने हेतौ करणे। कृग् हिंसायाम् इत्यस्य हन्त्यर्थत्वाच्चुरादित्वे "चुरादिभ्यो णिच्" (३-४-१७) इति णिचि । ततो भावेऽनटि कारणम् । करोति वा कारणमिति साधुः क्रियतेऽनेन करणम् ततः स्वार्थेऽण् वा। घातने यथा - कारणोपहितमानसस्य ते कारणा निरयवह्निषु स्थिता । हेतौ यथा-नाकारणरुषां संख्या संख्याता: कारणक्रुधः। करणे साधकतमे यथाभक्तिर्यमश्च श्रद्धा च कारणं मोक्षसंपदः । कारणा पुनः । यातना । णिवेत्त्यास (५-३-१११) इति अने कारणा ।।१८७।। यातना नरकवेदना तस्यां यथा-कारणा निरयवह्निषु स्थिता । कार्मणं मन्त्रादि योगे कर्मकारके । वृद्धोपदिष्टं कर्मैव कार्मणम् । "कर्मणः सन्दिष्टे” (७-२-१६७) इति अण् । कर्मैव वा कार्मणम् । प्रज्ञादित्वादण् । मन्त्रादियोगे यथा-कार्मणत्वमगमद्रणेषु । कर्म च तत्कारकं च कर्मकारकम् । काक(कि)णीमानदण्डस्य तुरीयांशे पणस्य च । कृष्णलायां वराटे च । केक्यते काकणिः । “कणित्" (उ० ६४०) इति अणिः । इयां काकणी। तुरीयांश इति मानदण्डस्य पणस्य च काकाक्षिगोलकन्यायेनाभिसम्बध्यते । मानदण्डश्चतुष्करः । पणतुरीयांशे यथा-पञ्चाहतैश्चतुभिर्वराटकैः काकिणी चैका ॥१८८।। कृष्णला