SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ (८४) अनेकार्थसंग्रहः सटीकः कृष्णलायां वराटे च कृपाणी कर्तरी क्षुरी । कृपाणोऽसौ क्षेपणी तु नौदण्डजालभेदयोः ॥१८९।। कौङ्कणः स्याज्जनपदे कौङ्कणं त्वायुधान्तरे । ग्रहणं स्वीकृतौ वन्द्यां धीगुणे शब्द आदरे ॥१९०॥ गुञ्जा। वराटे कपर्दे यथा-असिधाराक्रयक्रीता वरमेकापि काकिणी। मानभेदे प्रसृति मध्यलक्षणेऽपि मङ्खः। यथादरिद्रः काकिणीं दद्यात् । चक्रवत्ति-रत्नविशेषेऽपि । कृपाणी कर्तरो भुरी। कल्पते छेदनाय कृपाणी । कृपि विषि (उ० १९१) इति आणक् । ङ्यां कृपाणी। कर्तयां यथा-कृत्तः कृपाण्या हतकेशसंचयः । छुर्यां यथा-द्रोहं चक्रे कस्यचित्स्वा कृपाणी । कृपाणोऽसौ । असौ खड्गे यथा-हे हस्त दक्षिणमृतस्य शिशोद्धिजस्य जीवातवे विसृज शूद्रमुनौ कृपाणम् । क्षेपणी तु नौदण्डजालभेदयोः । क्षिप्यतेऽनयाऽस्यां वा क्षेपणी। द्वयोर्यथा-जलनिधिजलमध्ये क्षेपणी निक्षिपन्ति ।।१८९।। कौङ्कणः स्याज्जनपदे । कुक्यते कौऋणः । चिक्कणकुक्कण (उ० १९०) इति साधुः । अयमवनि पतंतीन्दुर्भूपतिः कीऋणानाम् । कौङ्कणं त्वायुधान्तरे । आयुधान्तरम् आयुधविशेषः । ग्रहणं स्वीकृतौ वन्द्यां धीगुणे शब्द आदरे । ग्रहोपरागे प्रत्याये । गृहीति ह्यते वा ग्रहणम् । गृह्यतेऽनेन वा । स्वीकृतौ यथा-लक्ष्मीकर ग्रहण कण्ट कितप्रकोष्ठः। वन्द्यां यथा-ग्रहणीकृतरिपुर्लक्ष्मी: । धीगुणे यथा-शुश्रूषा श्रवणं चैव ग्रहणं धारणं तथा । शब्दे यथा-लोकोपचाराद्ग्रहणसिद्धिः। आदरे यथा-चूडामणौ कि ग्रहणं हरस्य ।।१९०॥ प्रत्यायो राजादि ग्राह्यं धनम् । तत्र ग्रहोपरागे च यथा-सा राहुमूतिरिव * मु. मू० ग्रहणी तु रुगन्तरे ।।
SR No.002280
Book TitleAnekarth Sangraha Satik Part 02
Original Sutra AuthorHemchandracharya
AuthorMahendrasuri, Jinendravijay
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages542
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy