________________
तृतीयः काण्ड:
ग्रहोपरागे प्रत्याये ग्रामणी:* क्षुरमर्दिनि । प्रधाने भोगिके पत्यौ ग्रामिणी पण्ययोषिति ॥१९१॥ ग्रामेद्यां नीलिकायां च गोकर्णः' प्रथमान्तरे ।
अंगुष्ठानामिकोन्माने मृगेऽश्वे नरसर्पयोः ॥१९२॥ न ग्रहणं जहाति । ग्रामणीः क्षुरमर्दिनि । प्रधाने भोगिके पत्यौ । ग्रामं नयति ग्रामणीः । ग्रामानान्नियः (२-३-७१) इति णत्वम् । क्षुरमर्दिनि पुंसि । प्रधाने भोगिके पत्यौ च वाच्यलिङ्गः। क्षुरमर्दी नापितः । तत्र यथा-क्व भूपतिपरिस्यन्दो ग्रामणी कलहः क्व च । प्रधाने पत्यौ च यथा-खादति मुहुः पाणीमृगग्रामणीः। भोगो विद्यतेऽस्य भोगिकः। भोगपात्रम् । ग्रामिणी पण्ययोषिति । ग्रामेद्यां नीलिकायां च । ग्रामः पेटकसंवसथो वाऽरत्यस्य ग्रामिणी। पण्ययोषित् पण्यस्त्री ॥१९१।। ग्रामेयी ग्रामोद्भवा । नीलिका ओषधिः। गोकर्णः प्रमथान्तरे । अङ्गष्ठानामिकोन्माने मृगेऽश्वे नरसर्पयोः । गौरिव कौँ अस्य गोकर्णः । गोकर्णसदृशत्वाद्वा गौर्दृष्टिः कर्णोऽस्येति वा । प्रमथान्तरं गणविशेषः । तत्र यथा - स्मृतगोकर्णनिकेतमीश्वरम् । अत्र गोकर्णगणसेवितत्वात् । गोकर्णो निकेतः । अङ्गष्ठानामिकोन्माने यथा-प्रदेशन्यादिभिः सार्द्धमङ्गष्ठे वितते सति । प्रादेशनालगोकर्णवितस्तयोर्यथाक्रमम् । मृगे यथा - गोकर्णतर्णकोऽयं त!त्युपकण्ठकच्छेषु । अश्वतरो वेसरः। तत्र सर्पे च यथागोकर्णः कृष्णवर्णोऽयं लष्ठवणैर्न वर्ण्यते ॥१९२॥ गोकर्णी तु मूर्विकायाम् । मूर्विका ज्याहेतुस्तृणविशेषः । चरणो मूलगोत्रयोः । १ मुद्वितेमूले-गोकर्णोऽश्वतरे सपै मृगभेदे गणान्तरे । २ मु. म० भ्रमणे भक्षे रासभस्य विनावप ।