________________
अनेकार्थसंग्रहः सटोक:
गोकर्णी तु मूर्विकायां चरणो मूलगोत्रयोः । बहवृचादौ च पादे च चरणं भ्रमणेऽदने ॥१९३।। जरणो रुचके हिंगौ जोरके कृष्णजीरके । तरुणः *कुक्डपुष्पे स्यादेरंडे यूनि नूतने ॥१९४॥ तरणिस्तरणेऽर्केऽशौ कुमार्योषधिनौकयोः ।
यष्ठावाब्धौ दक्षिणस्तु परच्छन्दानुवर्तिनि ॥१९५।। बहवृचादौ च पादे च। चरत्यनेन चरणः । चर्यते वा । त क श (उ० १८७) इति अणः पुंक्लीबः। मूले यथाचरणसेकविद्धितवृक्षकाः । गोत्रमन्वयः । वहवृचादयो वेदशाखाध्ययननिमित्तकव्यपदेशभाजो द्विजन्मानः। तत्र यथा-विशाला ब्रह्मशालेयं चतुश्चरणमण्डिता । पादे यथा-सारं जयत्वाचरणौ कृताशीर्माल्ये नतां निर्वचनं जघान । चरणं भ्रमणेऽदने । चर्यते चरणं । द्वयोर्यथा-बहुतरचरणे नोजितास्तावकेन । चारित्रेपि । यथा-अवृत चरणबोधः प्राणिनो यत्प्रसादादसमसुखनिधानं मोक्षमासादयन्ति ।।१९३॥ जरणो रुचके हिंगौ जीरके कृष्णजिरके । जीर्यतेऽनेन जरणः । चतुर्वर्थेषु रुचकं सौवर्चलं । हिंगू क्लीबे दूत्यन्ये । तरुणः कुक्डपुष्पे स्यादेरंडे यूनि नूतने । तरति तरुणः । यमयजिशक्य (उ० २८८) इति उन । यूनि नूतने च वायलिंगः यूनि यथा-ग्रामतरुणं तरुण्या नवमञ्जुलमंजरीसनाथकरं । नूतने यथा-एषु रे तरुण मारुतधूयमानदावावलीवलयितेषु महीरुहेषु ॥१९४॥ तरणिस्तरणेऽर्केऽशौ कुमार्योषधिनौकयोः । यष्ठावाब्धौ। तरुणं तरति तीर्यतेऽनया वा तरणिः। ऋहसृमृधु (उ० ६३८) अणिः । * कुब्जपुष्पे ।