________________
तृतीयः काण्ड:
(८७)
AN
दक्षेऽपसव्ये सरलेप्राचीनेप्यथ दक्षिणा । दिक्प्रतिष्ठा यज्ञदानं द्रुघणः पशुवेधसोः ॥१९६॥ मुद्गरेऽप्यथ दुर्वर्णं कलधौतकुवर्णयोः ।
दौर्वीणं मृषपणे स्याद्धरितालीरसेऽपि च ॥१९७॥ सप्तस्वर्थेषु अर्के शौ यष्ठावाब्धौ च स्त्रीपुंसः । अन्यत्र स्त्रियाम् । तरणे यथा-तरणिकरणिमेणाः कुर्वते फालदानैः । अर्के शौ च यथा - तरुणतरणितापक्लान्तकौलेयजिलातः रभतरनिपातं जीवितं मानवानाम् । कुमारी चासावोषधिश्च कुमार्योषविः । नौकायां यथा-दारिद्रयोदधि तरणिः सरणि निःश्रेयसस्य नित्यस्य यष्टिः पतितगोरूपोच्छापनो दंडः। यष्ठाब्धिदक्षिणस्तु परच्छन्दानुबतिनि । दक्षे अपसव्ये सरलेऽप्राचीनेपि । दक्षते दक्षिणः । द्रुहृवृहि (उ० १९४) इण । पंचस्वर्थेषु वायलिंगः । परछन्दानुवत्तिनि ॥१९५।। दक्षे सरले च यथा-दक्षिणः क्षितिपतिः व्यशश्रणत् । अपसव्ये यथा-हे हस्तदक्षिण मृतस्य शिशोद्विजस्य । अप्राचीने दक्षिणदिग्भवे यथा-चाटुकार इव दक्षिणोऽनिल: । अथ दक्षिणा । दिक् प्रतिष्ठा यज्ञदानम् । दिशि यथा-दिक्दक्षिणा गंधवाहं मुखेन । प्रतिष्ठायां यथा-करणीया शुभे लग्ने दक्षिणा हि विचक्षणैः । यज्ञदाने यथा-दक्षिणाः सदसि राजसूयकीः। द्रुघणः पशुवेधसोः। मुद्गरेपि । दुर्हन्यतेऽनेन द्रुघणः । व्ययोद्रोः करणे (५-३-३८) इत्यल् । घनादेशश्च । अरीहणादिपाटात् णत्वं । द्रुह्यति वाचि क्वण कुक्वणेत्यणे साधुः । पशुमुद्गरयोर्यथा-प्रचक्रे द्रुघणैर्वणः । वेधसि बह्मणि यथा-द्रुघणोपि न निद्राति सांद्रदैत्येन्द्रशंकया ॥१९६।। अथ दुर्वर्णं कलधौतकुवर्णयोः । दुष्टो वर्णोऽस्य दुर्वर्णं कुवर्णे