________________
(८८) अनेकार्थसंग्रहः सटोकः
धरणोऽहिपतौ लोके मान्ये' धान्येऽपि दिवाकरे । धरणं धारणे मानविशेषे धरणी भुवि ॥१९८॥ घर्षणं रतेऽभिभवे धर्षणी त्वभिसारिका ।
"धिषणत्रिदशाचार्यः धिषणा तु मनीषिका ॥१९९।। वायलिंगः। कलघौते यथा-उच्चैर्महारजतराजिविराजिताऽसौं दुवर्णभित्तिरिह सान्द्रसुधासवर्णा । कुवणे यथा-सवर्णं दुर्वर्ण सुतनुतनुकान्त्या तव कृतम् । दौर्वीणि मृषपणे स्याद्धरिताली रसेपि च। दुखेन वीर्यते दौर्वीणं भ्रूण वृणेति साधुः । मृषपर्ण ओषधिविशेषः । हरिताली दुर्वा तस्याः रसः ।।१९७।। धरणोऽहिपतो लोके माने धान्येपि दिवाकरे । धरति घ्रियतेऽनेन वा धरणः । अहिपतौ यथा-कमठे धरणेन्द्रे च स्वोचितं कर्मकुर्वति । लोको लोकविशेष: धरणं धारणे मानविशेषे । धृतिधरणं धारणे यथा-दुखाकुलस्य मनसो धरणं न शक्यम् । मानविशेषे यथाअयं धारयते मूर्ना पित्रव्यधरणद्वयीम्। धरणी भुवि यथाधरणीधरकन्दरान्तरस्थाम इकारान्तोपि यथा-विलसितमनुकुर्वती पुरस्ताद्धरणि रुहाधिरोहो वधूलतायाः ॥१९८॥ धर्षणं रतेऽभिभवे । घष्यतेऽस्मिन् धृष्टिर्वा घर्षणं । द्वयोर्यथा-अविरतघर्षणरसिकः खल इव वेश्याजनो जयति । धर्षणी त्वभिसारिका धृणोति धर्षणी रम्यादित्वादनटि टित्वाड्डीः । यथा-वर्षत्यपि घने याति रसोत्कर्षेण धर्षणी। धिषणस्त्रिदशाचार्यः । धृष्णोति धिषणः धृषि वहेरिश्वोपान्त्यस्येत्यणः । यथा-सौखप्रसुप्तिकविधौ धिषणो नदीष्णः । धिषणा तु मनोषिका । मनीषिका १५० स्तने। २ भुवि। धारणः सलिले स्वर्गे परमेष्ठिनि धर्मणः ॥ सर्वभेदे वृक्षभेदे०३ धारिणी नाडिलादिभिः। धारणा स्यात्त योगाङ्गे वारणं ग्रहहे मतम्।।