________________
तृतीयः काण्डः ।
(८९)
निर्याणं निर्गमे मोक्षगजापांगप्रदेशयोः । निर्वाणं मोक्षनिर्वृत्योर्विघाते करिमन्जने ॥२००।। निर्माणं सारनिर्मित्योः कर्मभेदे समंजसे । निःश्रेणिरधिरोहिण्यां खजूरी पादपेऽपि च ।।२०१।।
बुद्धिस्तत्र यथा-तीक्ष्णा हि मनीषिणां धिषणा ।।१९९।। निर्याणं निर्गमें मोक्षगजापांगप्रदेशयोः निर्यायते निर्याणं निर्याति मदो ऽनेन वा। निर्गमे यथा-ततो नगरनिर्याणे तयोरासीत्समागमः। मोक्षे यथा-सर्वसंगपरित्यागान्निर्याणं स यियासति । गजापांगप्रदेशे यथा-निर्याणं निर्पदसृजं चलितं निषादी। निर्वाणं मोक्ष-निर्वृत्यो-विघाते करिमज्जने । निर्वात्यस्मिन् करणाधारेऽनट (५/३/१२९ निर्वाति स्म वा । निर्वाणमवाते इति क्तस्य नत्वे साधुः । विघाते वाच्यलिंगः । निर्वृत्तिः सुखमात्रं तत्र मोक्षे च यथा-प्रियादर्शनमेवास्तु किमन्यैः दर्शनान्तरैः । प्राप्यते येन निवाणं सरागेणापि चेतसा। विधाते यथा-निर्वाणवैरदहनाः प्रशमादरोणां । करिमज्जने यथा-निर्वाणमापि सरसीषु गजाधिरूढपेन ॥२०॥ निर्माणं सारनिर्मित्योः कर्मभेदे समंजसे । निर्मीयते निर्माणं । सारस्थिरोऽर्थः । निर्मितौ यथाजननयननिर्माणमफलं । कर्मभिदो विचित्रावयवरचनाहेतुर्नाम कर्मभेदः । तत्र यथा-निर्माणेन विनिर्मिता तनुरियम् । समंजसं न्यायः। निःश्रेणिरधिरोहिण्यां खजूरीपादपेपि च । निर्गता श्रेणि: सोपानपंक्तिरत्र निःश्रेणि: निष्क्रान्ता श्रेणेस्तरु समूहाद्वा उच्चविटपत्वात् । स्त्रियां अधिरोहिण्यां यथा-अधिरोढुं गुणश्रेणी निःश्रेणीमुक्तिवेश्मनः ॥२०१।। प्रघणोऽलिंदके ताम्रकलसे लोहमुदुगरे । प्रहण्यते प्रघणः । प्रघणप्रघाणौ गृहाशे