________________
(९०)
अनेकार्थसंग्रहः सटीकः
प्रघणोऽलिंदके ताम्रकलसे लोहमुद्गरे । प्रवणस्तु क्षणे प्रहवे क्रमनिम्ने चतुष्पथे ॥२०२॥ आयते च प्रमाणन्तु मर्यादासत्यवादिनोः । प्रमातर्येकतेयत्तानित्येषु हेतुशास्त्रयोः ॥२०३॥ पत्तोर्णं धौतकौशेये स्यात्पत्रोर्णस्तु शोणके* । पक्षिणी पूर्णिमाखग्योः शाकिनी रात्रिभेदयोः ॥२०४।।
इत्यलि (५-३-३५) साधुः । प्रघणति वा अलिंदके द्वाराधोदारुणि यथा-प्रघणे प्रगुणीचक्रुः कर्पूरस्वस्तिकान् स्त्रियः । प्रवणस्तु क्षणे प्रहवे क्रमनिम्ने चतुष्पथे । आयत्ते च । प्रवन्तेऽत्र प्रवणः । प्रवते वा । पंचस्वर्थेषु क्षणे पुंसि । चतुष्पथे पुंक्लीबः । अन्यत्र वाच्यलिंगः । क्षणोऽवसरः। प्रहवे आसक्ते यथा-परोपकारप्रवणेन चेतसा। क्रमनिम्ने यथा-प्रागुदक्प्रवणा भूमिः श्लक्ष्णा योगे प्रशस्यते । चतुष्पथे यथा-प्रवणे चरन्ति भूताः ॥२०२॥ आयत्ते यथा-प्रायेण योषित्प्रवणा हि कामिनः । प्रमाणन्तु मर्यादासत्यवादिनोः प्रमातर्येकतेयत्तानित्येषु हेतुशास्त्रयोः । प्रमीयतेऽनेन प्रमितिः । प्रमिमीते वा प्रमाणम् । मर्यादा अवधिः । तत्र यथा-राजानं मां च प्रमाणं कृत्वा यतः यस्याकुशलं पश्यसीति । सत्यवादिनि यथा-वाणी पमाणस्य मुनेः प्रमाणं । प्रमातरि यथा-सतां हि संदेहपदेषु वस्तुषु प्रमाणमन्तःकरणप्रवृत्तयः । एकतायां यथा-परस्परप्रमाणाः भ्रातरः । इयत्ता परिच्छेदः। तत्र यथा-कियत्प्रमाणमुदकम् । नित्ये यथा-नभः प्रमाणं गुणिनो गृणन्ति । हेतौ यथा-धूमः प्रमाणं ज्वलनावबोधे । शास्त्रे यथा-पदवाक्यप्रमाणानां पारंयात
* शोणकद्रुमे ।