________________
तृतीय: काण्डः
wwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwww प्रवेणिणिकुथयोः पुराणं प्रत्नशास्त्रयोः । पुराणः षोडशपणे पूरणं वानतन्तुषु ।।२०५।। पूरके पिष्टभेदे च पूरणी शाल्मलिद्रुमे । प्रोक्षगं सेकवधयोः भरणं वेतने भृतौ ।।२०६॥
-
स्य धीमतः । पत्तोर्णं धौतकौशेये स्यात् । प्राप्ता ऊर्णाऽनेन पत्तोर्णं पृषोदरादित्वात् । यथा-पत्तोर्णसावर्ण्य जुषःकरास्ते । पत्रोर्णस्तु शोणके । शोणको रलुकवृक्षः । पक्षिणी पूर्णिमाखग्यो: शाकिनीरात्रिभेदयोः । पक्षावस्या: स्तः पक्षिणी । पूर्णिमायां यथा-सदृक्षः पक्षिणींदुना । खग्यां यथा-सा ययावन्तरिक्षेण पक्षिणी व क्षणादपि । शाकिनीभेदः शाकिनीविशेषः। रात्रिभेदे आगामिवर्तमानदिनयुक्ते यथा-अमावास्यां पक्षिणी नाधीते ॥२०४।। प्रवेणिर्वेणिकुथयोः । प्रवेति प्रवेणिः । कावावी (उ० ६३४) इति णिः । स्त्रियां वेणिः कबरी । कुथो वर्णकंवल: । द्वयोर्यथा-प्रवेणीमदनस्येव प्रवेणी कुसुमां. चिता । पुराणं प्रत्नशास्त्रयोः पुरा भवं पुराणं । प्रत्ने पुरातने वाच्यलिंगः तत्र यथा-निर्मातुं प्रभवेन्मनोहरमिदं रूपं पुराणो मुनिः। शास्त्रं पंचलक्षणं । यथा-सर्गश्च प्रतिसर्गश्च, वंशो मन्वन्तराणि च । वंशानुवंशचरितं पुराणं पंचलक्षणम् । पुराण: षोडशपणे । यदाह-षोडशपणः पुराणः पणो भवेत्काकिणी चतुष्केण । पूरणं वानतंतुषु । पूरके पिष्टभेदे च । पूर्यतेऽनेन पूरयति वा पूरणं ॥२०५।। पूरके वाच्यलिंगः । तत्र यथासहस्रपूरणः कश्चिल्लूनमू‘सिना द्विषः । पिष्टभेदे यथाघृतपूरैः सकर्पूरैः पूरणश्च स पूरितः। पूरणी शाल्णलिद्रुमे । स्त्रियां । टित्वाड्डी । प्रोक्षणं सेकवधयोः। प्रोक्ष्यते प्रोक्षणं । सेके