________________
अनेकार्थसंग्रहः सटीकः wwwwwwwwwww wwwwwwwwwwwwwwwwwwwwwwwwww
भरणी शोणके भे च भ्रमणी स्यादधीशितुः । क्रीडादौ कारुंडिकायां भीषणं सल्लकीरसे ॥२०७॥ भीषणो दारुणेऽर्गाटे मत्कुणोऽश्मश्रुपूरुषे । उदंशो नालिकेरे च निर्विषाणगजेऽपि च ।।२०८॥ मसृणाऽकठिने स्निग्धे मसृणो स्यादतस्यपि । मार्गणं याचनेऽन्वेषे मार्गणस्तु शरेऽर्थिनि ॥२०९।।
यथा-पृण्टप्रोक्षणलब्धशुद्धिरधुना । वधो हिंसाऽर्थाद्यज्ञे । तत्र यथाप्राणप्रोक्षणके वनेत्र विजने कि भीरु बंभ्रम्यसे । भरणं वेतने भृतौ । भ्रियतेऽनेन भृतिर्वा बिभर्ति वा भरणं वेतनं मूल्यं । भृतिः पोषणमात्रं द्वयोर्यथा-मूर्खशिष्योपदेशेन दुष्टस्त्री भरणेन च ।।२०६।। भरणी शोणके भे च । शोणको रलुकवृक्षः । भे नक्षत्रे यथा-बुधे धनिष्ठा भरणी अश्विनी मूलरेवती । भ्रमणी स्यादधीशितु: क्रीडादौ कारुडिकायां । भ्रम्यतेऽस्यां भ्रमणी । अधीशितु: राजादेः। क्रीडादौं यथा-भ्रमष्यां प्रययौ (नृपः)। कारुंडिका ओषधिः । भीषणं सल्लकीरसे भीषयति भीषणं ॥२०७।। भीषणो दारुणेऽर्गाटे । दारुणे वाच्यलिंगः। तत्र यथा-स रावणो नाम निकामभीषणं । बभूव रक्षः वातरक्षणं दिवः । अर्गाटोऽपामार्गः । मत्कुणोऽश्मश्रुपूरुषे उदंशे नालिकेरे च निर्विषाणगजेऽपि च । माद्यति मत्कुणः। भ्र णतृणेति (उ० १८६) साधुः । अश्मश्रुपूरुषे नालिकेरे च यथास्त्रैणं क्रीडति मत्कुणैः । उद्देशे क्षुद्रजन्तौ यथा-मत्कुणाविव पुरः परिप्लवौ सिन्धुनाथशयने निषेदुषः । निर्विषाणगजे यथा-दशनव्यसनादीयुमत्कुणत्वं मतंगजः ।।२०८। मसृणोऽकढिने स्निग्धे । मस्यति परिणमते मसृणः । भ्रूणतृणेति (उ० १८६) साधुः ।