________________
तृतीयः काण्डः
-
यन्त्रणं बन्धने त्राणे नियमे रमणं पुनः । पटोलमूले जघने रमणो रासभे प्रिये ॥२१०॥ रोषणो रोषणे हेमघर्षे पारद ऊपरे ।
रोहिणी सोमवल्के मे कंठरोगोभयोगवि ॥२११।। । गुणे पुंसि । तद्वति वाच्यलिंगः । अकठिने यथा-मसृणचरणपातं गम्यतां भूः सदर्भा । स्निग्धे यथा-मसृणघुसृणपंकैरंकिता पाष्णिरस्याः । मसृणास्यादतस्यपि । अतसि उमा । मार्गणं याचनेऽन्वेषे । मार्यते मार्गणं । याचने यथा-द्रविणमार्गणलंपटकुट्टनी । अन्वेषे यया-वैदेहो मार्गणं रामः सकामः कुरुते वने। मार्गणस्तु शरेऽर्थिनि । मार्गति मार्गणः । अर्थिनि वाच्यलिंगः । द्वयोर्यथा-कृतपुंखतया लेमे लक्षमप्याशु मार्गणे: ॥२०९।। यन्त्रणं बंधने त्राणे नियमे । यंत्र्यते. यंत्रणं । त्रिष्वपि यर्था-कुर्यादिंद्रिययन्त्रणं । रमणं पुनः । पटोलमूले जघने । रम्यतेऽनेन रमणं । पटोलमूलमौषधं । जघने यथारमणालवालनिर्गतरोमावलिवल्लरीव संसिक्ताः । रमणो रासभे प्रिये । रमते रमणः। रम्यादित्वादनट् । प्रिये यथाचाटुचाकृतक संभ्रममासाकार्मणत्वमगमद्रमणेषु ।।२१०।। रोषाणो रोषणे हेमघर्षे पारद ऊषरे रुष्यति रोषाणः । कल्याण पर्याणा (उ० १९३) इति साधुः। रोषणे वाच्यलिंगः । तत्र यथारोपाणस्तं विषाणाभ्यां विव्याध व्यालकुंजरः । हेमघर्षः शोणः । पारदो रसः । ऊषरमिरिणं । रोहिणी सोमवल्के भे कंठरोगोमयोर्गवि। लोहिताकटुरोहिण्योः। रोहति अवश्यं रोहिणी णित्वावश्यकेति णिन् । रोहित शब्दाद्वाश्येति डीस्तस्य नत्वं च। सप्तस्वर्थेषु । सोमवल्कः श्रीपर्णी । भे नक्षत्रे यथा