________________
(९४) अनेकार्थसंग्रहः सटीक:
लोहिताकटुरोहिण्योलवणो राक्षसे रसे । अस्थिभेदे लवणात्विट् लक्षणं नामचिह्नयोः ।।२१२।। लक्ष्मणं च लक्षणस्तु सौमित्रो लक्ष्मणो यथा ।
लक्ष्मणः श्रीयुते लक्ष्मणौषधौ सारसस्त्रियाम् ॥२१३॥ हे रोहिणि त्वमसि रात्रिचरस्य भार्या । कंठरोगो गलांकुरः । उमा गौरी तत्र यथा-रोहिणोरहितः शिवः। गवि यथावद्धिष्णुधारा ध्वनि रोहिणी: पयश्चिरं निदध्यौ दुहतः स गोदुहः ॥२११।। लोहितायां रक्तायां यथा-तापाय रोहिणी तडित् । कटुरोहिणी ओषधिः । लवणो राक्षसे रसे । अस्थिभेदे । लुनाति लवणः । नद्यादित्वात् अनो णत्वं च । राक्षसे यथा-दुर्जयो लवणः शूली विशूल: प्रार्थ्यतामिति । 'रसे यथास्वक्षो लवणभोजी स्यात् । अस्थिभेदो भालकर्णातरास्थि । तत्र यथा-शृणाति लवणाधातः । लवणात्विट् । त्विट् दीप्ति लक्षणं नामचिह्नयोः । लक्ष्मणं च । लक्ष्यतेऽनेन लक्षणं । लक्षयति वा। लक्ष्यतेऽनेन लक्ष्मणं। चिक्कण कुक्कण (उ० १.०) इति साधुः। लक्षणलक्ष्मणशब्दौ नामचिह्नयोः वर्तेते इत्यर्थः । नामनि यथा-ककुस्थ इत्याहित लक्षणोऽभूत् । लक्ष्मणे न स लक्ष्मणः । चिह्न यथा-उपकारापकारौ हि लक्ष्यं लक्षणमेतयोः। आजैश्वर्यं च सत्वं च विदुक्ष्मपिस्य लक्ष्मणं ॥२१२।। लक्षणं शास्त्रेऽपि । लक्षणस्तु सौमित्रो लक्ष्मणो यथा-सौमित्रो रामानुजे यथा-उच्चरणलब्धकीर्तेराज्ञारहितस्य लक्षणयुतस्य । रामस्य वनं शरणं जितपरकलभस्य शरभस्य । सुग्रीवस्य श्रियं दृष्ट्वा विनयं लक्ष्मणस्य च । विभीषणस्य दोलेव मतिरायाति याति च । लक्ष्मणः श्रीयुते । लक्ष्मी