________________
तृतीयः काण्डः
(९५)
वरुणोऽर्केऽप्पतौ वृक्षे वरणो वरुणद्रुमे । प्राकारे वरगं वृत्यां वारणः स्यान्मतंगजे ॥२१४।। वारणं तु प्रतिषेधे ब्राह्मणं विप्रसंहतौ ।
वेदे च ब्राह्मणो विप्रे *वारुणी पश्चिमासुरा ॥२१५।। रस्त्यस्य लक्षमणः । लक्ष्म्या अन: वाच्यलिंगः। पुण्यभागी स लक्ष्मगः। लक्ष्मणौषधौ सारसस्त्रियां। सारस स्त्रियां यथावाल्मोकेररहितरामलक्ष्मणानां सादृश्यं दधति गिरां महासरस्य ॥२१३।। वरुणोऽर्केऽप्पतौ वृक्षे । वृणोति वरुणः । दृकृत दारिभ्य उणः । अर्के यथा-उदेति वरुणोरुणः । अप्पतौं पश्चिमापतौ यथा-अतिसक्तिमेत्य वरुणस्य दिशा भृशमन्वरज्यदनुषारकरः । वृक्षो वृक्षभेदः । वरणो वरुणद्रुमे । प्राकारे । वृणोति वरणः। तक थ इत्यणः। द्वयोर्यथा-प्रोत्तुंगवरणावृतः । वरणं वृत्यां वृतिः स्वीकारः । तत्र यथा-कन्या वरणमिच्छति स्वजातावेव वाणिजाः । वारणः स्यान्मतंगजे । वारयति वारणः ॥२१४॥ वारणं तु प्रतिषेधे । वार्यते वारणं । मतंगजे प्रतिषेधे च यथान भवति बिसतन्तुर्वारजं वारणानां । ब्राह्मणं विप्रसंहतो । वेदे च । ब्राह्मणानां समूहो ब्राह्मणं । ब्राह्मणमाणवेतियवाधकः श्वादिभ्योऽन । ब्रह्मणा प्रोक्तं वा तेन प्रोक्त इत्यण् । वेदेऽन् । ब्राह्मणमत्रैवेति निर्देशाद्ब्रह्मण इत्यंत्यस्वरादिलोपो न भवति । विप्रसंहतौ यथा-ब्राह्मणं ब्रह्मशालायामजिह्मध्वनि गायति । वेदे वेदैकदेशे यथा-पम्यन्ते याज्ञवल्कानि ब्राह्मणैर्ब्राह्मणानि तैः। ब्राह्मगो विप्रे। ब्रह्मणोऽपत्यं ब्राह्मणः । डसोऽपत्ये इत्यण् यथा-गंधेन गावः पश्यन्ति वेदैः पश्यन्ति ब्राह्मणाः । * ब्राह्मणी वाडवस्त्रियां । स्पृक्कायां फजिकायां च। वारुणी०