________________
(९६)
अनेकार्थसंग्रहः सटीकः
गंडदूर्वा विषाणं तु शृंगे कोलेभदंतयोः । विषाणी मेषशृंग्यां स्यात् विपणिः पण्यहट्टयो: ।। २१६ ॥
पण्यवीथ्यां श्रमणस्तु निग्रंथे निद्यजीविनि । श्रमणा सुलता मांसी मुण्डीरी च सुदर्शना ॥२१७॥
फंजिकास्पृक्कयोस्तु ब्राह्मणीति प्रयोक्तव्यम् । वारुणी पश्चिमा सुरा । गंडदूर्वा । वरुणस्येयं वारुणीं । पश्चिमासुरयोर्यथास वारुणीसक्तिमुपेत्य साम्प्रतं विहीनकान्तिः पतितो द्विजेश्वरः ।। २१५।। गंडदूर्वा प्रधानदूर्वा विषाणं तु श्रृंगे कोलेभदंतयोः । वेवेष्टि विषाणं । कृपिवृषि वृषीत्याणम् । त्रिलिंगः । श्रृंगे यथा-परेत भर्तुर्महिषोऽमुना धनुर्विधातुमुत्खातविषाणमंडल: । कोलदंते यथा - कोला विषाणतटधट्टितपल्वलान्तः । इभदन्ते यथा- न जातु वैनायकमेकमुद्धतं विषाणमद्यापि पुनः प्ररोहति । विषाणी मेषशृंग्यां स्यात् । मेषशृंगी ओषधिः । विपणिः पण्ययोः । पण्यवीथ्यां विपण्यते विपणायंत्यस्मिन् वा विपणिः । पदिपठीति इः । स्त्रियां । माघस्तु पण्यवीथ्यां पुंस्याह । त्रिष्वपि यथा - अगण्यपण्यपूर्णापणं विपणिनो विपणि विभेजुः । अत्र विपणिः । पण्यं हट्टौ वा विद्यते येषां ते विपणिनः । शिखादित्वादित् । विपणि पण्यवीथिकामित्यर्थः । श्रमणस्तु निग्रंथे निद्यजीविनि । श्राम्यति श्रमणः । नद्या'दित्वादन: । निर्ग्रथे यथा - क्षमाप्रधानाः श्रमणाः भवन्ति । निद्यजीविनी वाच्यलिंग: । तत्र यथा - विश्रामः श्रमणे कुतः । श्रवण नक्षत्रभेदे । श्रूयते श्रवणः । त क श्रृ इत्यणः । स्त्रीपुंसः । यथा - मूलेऽर्कः श्रवणे चन्द्रः । श्रवण श्रवसि श्रुतौ । श्रूयतेऽनेन श्रुतिर्वा श्रवणं । श्रवसि कर्णे पुंक्लीबः । श्रुतौ श्रवणमात्रे