________________
तृतीयः काण्डः
(९७)
m
wwwmmmmmmmmmmmmmmmmm
श्रवणो नक्षत्रभेदे श्रवणं श्रवसि श्र तौ । शरणं रक्षणे गेहे वधरक्षकयोरपि ॥२१८॥ *श्रीपर्णस्त्वग्निमंथेऽब्जे श्रीपर्णी शाल्मलौ हठे । संकीर्णो निचिताशुद्धौ सरणिः श्रेणिमार्गयोः ॥२१९॥ सारणः स्यादतोसारे दशकन्धरमंत्रिणि ।। सिंङ्घाणन्तु घ्राणमलेऽयः किट्ट काचभाजने ॥२२०॥ क्लीबे। श्रवसि यथा-आलोचनान्तत् श्रवणौ वितत्य । श्रुतौ यथा-शुश्रूषा श्रवणं चैव ग्रहणं धारणं तथा। शरणं रक्षणे गेहे वधरक्षकयोरपि । शृणोत्यपायं शरणं । त क श इत्यणः । शीर्यते वा। श्रियंति तदिति नैरुक्ताः। रक्षणे यथा-तरुणानपि रक्षति क्षमी स शरण्यः शरणागतान् द्विषः। गेहे यथा-एताभिरग्निशरणेषु समिणीभिः। वधे यथा-विद्विषां शरणं शरैः। रक्षके यथा-त्वमेव शरणं मम ।।२१८।। श्रीपर्णमग्निमंथेऽब्जे । श्रीः पर्णे यस्य श्रीपर्ण । अग्निमंथोऽरणिः। अब्जे यथा-श्रीपर्णपर्ण विदधाति कर्णे। श्रीपर्णी शाल्मलौ हठे। शाल्मलिवृक्षभेदः। हठो जलजस्तृणविशेषः। संकीर्णो निचिताशुद्धौ। सम्यक्कीर्णः संकीर्णः। संकीर्यते मिश्रीक्रियते स्म वायलिंगः। निचिते यथा-सकीर्णकीचकवनस्खलितैकवालविच्छेदकातरधियश्चलितुं चमर्यः । अशुद्धे यथा-संकीर्णजातिर्गज एष याति । सरणिः श्रेणिमार्गयोः। सरन्त्यस्यामिति सरणिः। कृह सू इत्यणिः। स्त्रियां । श्रेणी पंक्तौ यथा-सरणिः पिपीलिकानां निर्याता वर्षसूचनं कुरुते । मार्गे यथा-उपपरिसरं मोदावर्याः परित्यजताध्वगाः। सरणिमपरोमार्गस्वावद्भवद्भिरिहेक्ष्यताम् ॥२१९।। सारणः स्यादतीसारे दशकन्ध
*श्रावणो मासि पाखण्डे दध्यात्यां श्रावणा मता । श्रीपर्ण।