________________
(९८)
अनेकार्थसंग्रहः सटीक :
सुषेणो विष्णु सुग्रीववैद्ययोः करमर्दके || सुवर्णं कांचने कर्षे सुवर्णाला मषान्तरे ॥ २२१|| कृष्णागुरुणि विस्ते च सुपर्णः कृतमालके || गरुडे स्वर्णचूडे च सुपर्णा विनताब्जिनी || २२२॥ हरणं तु हृतौ दोष्णि यौतकादिधनेपि च ॥ हरिणौ पांडुसारंगौ हरिणी चारुयोषिति ॥ २२३॥
1
मंत्रिणि । सारयति सारणः । अतीसारे यथा - तंत्रं सारणदारणं । रावण मंत्रिणि यथा-मंत्रिणौ शुकसारणौ । सिंहाणं तु घ्राणमलेऽयः किट्टे काचभाजने । सिंघ्यते सह्यते वां सिं (घा) हाणं । कल्याणप्रर्याणादय ( उ० १८३ ) इति साधुः ।। २२० ।। सुषेणो विष्णुसुग्रीववैद्ययोः । करमर्दके । शोभना सेनाऽस्य सुषेणः । एत्यक इति षत्वं । विष्णो यथासुषेणसेनाप्रसरेण भेदिनी । सुग्रीवस्य वैद्यः सुग्रीववैद्यः । करमर्दको वृक्षविशेषः । सुवर्णं कांचने कर्षे सुवर्णाला मषान्तरे । कृष्णागुरुणि विस्ते च । शोभनो वर्णोऽस्य सुवर्णं । सुटु वर्ण्यते वा । पुंक्लीब: । कांचने यथा - सुवर्णपुष्पां पृथिवीं चिन्वन्ति पुरुषास्त्रयः । कर्षेऽर्थान् कांचनस्य यथा माषोदशार्द्धगुंजः । षोडशमाषो निगद्यते कर्ष: । स सुवर्णस्य सुवर्णः । सुवर्णस्यालुः करकपात्रिका सुवर्णालुः । मषान्तरं यज्ञभेदः ।। २२१ | | कृष्णागुरुः काकतुंडः । विस्तः षष्ठिः पलशतानि । सुपर्णः कृतमालके । । गरुडे स्वर्णचूडे च । शोभनानि पर्णान्यस्य सुपर्णः । कृतमाल आरग्वधः । गरुडे यथा - निजकेतुशिरः श्रितः सुपर्णादपतन्नयुतानि पक्षिराजं । स्वर्णचूडः पक्षिविशेषः । सुपर्णा विनताब्जिनी | विनता गरुडमाता । तत्र यथा - सौपर्णेयप्रकीर्णैविषधरनिकरैः । अब्जिनी पद्मिनी ।। २२२ || हरणं तु हृतौ दोष्णि यौतकादिधनेपि