________________
तृतीयः काण्डः (९९) सुवर्णप्रतिमायां च हरिता वृत्तभेदयोः । हर्षणस्तु श्राद्धदेवे हर्षके योगरुग्भिदोः ॥२२४॥ हरेणुः कुलयोषायां रेणुकायां सतीनके ।
हिरणं हिरण्यमिव बराटे हेम्नि रेतसि ॥२२॥ च । ह्रियते हरणं । ह्रियतेऽनेन वा। हृतौ यथा-सीताहरणकारणात् । दोर्बाहुः यौतकं वधूवरयोदयं तत्र यथा-इच्छानुरूपं हरिणी कृतश्रीः प्रास्थापयद्राधवमन्वगाच्च । हरिणौ पांडुसारंगौ। हरति हरिणः । ह दृ वृ हि दक्षिभ्य इणः । पांडौ गुणे पुंसि । तद्वति वाच्यलिङ्गः। तत्र यथा-हरिणवदनकान्त्या शल्यमन्यय॑नक्ति। सारंगे मृगे यथा-अरण्ये मां त्यक्त्वा हरिण हरिणाक्षी क्व नु गता। हरिणी चारुयोषिति । सुवर्णप्रतिमायां च हरिता वृत्तभेदयोः । हरितशब्दात् श्येतैतहरितेतित्यान्तस्य नत्वे च हरिणी। चारु: प्रधानयोषित् चारुयोषित् । वात्स्यायनप्रसिद्धा ॥२२३॥ सुवर्णप्रतिमायां यथाहरिणीभिः श्रितस्तंभा भान्ति प्रासादमंडपाः । हरिता नीला तत्र यथा-सन्मनोहारिणी ब्योम्नि हरिणी शुकधोरणी । वृत्तभेदे यथा-भवति हरिणीन्सौम्रौम्लौ गोरसो दधिसप्तकैः । हर्षणस्तु श्राद्धदेवे हर्षके योगरुग्भिदोः । हृष्यति हर्षणः । हर्षके वाच्यलिङ्गः। श्राद्धदेवो यमः। हर्षके यथा-करेणुर्मदहर्षणः । योगभिदि यथा-व्याघातो हर्षणस्तथा। रुग्भिद् अक्षिरोगविशेषः ॥२२४॥ हरेणुः कुलयोषायां रेणुकायां सतीनके । हरति हरेणुः । कृ ह भू इत्येणुः । सतीनके पुंसि । शेषयोः स्त्रियां । कुलयोषा कुलस्त्री। रेणुका गंधद्रव्यं सतीनकस्त्रिपुटधान्यं । हिरणं हिरण्यमिव वराटे हेम्नि रेतसि । हरति हिरणं । चिक्कण