________________
(१००) अनेकार्थसंग्रहः सटोकः
अमृतं यज्ञशेषेम्बुसुधामोक्षेष्वयाचिते ॥ अन्नकांचनयोर्जग्धौ खे स्वादुनि रसायने ।।२२६।। घृते हृद्ये गोरसे चामृतं धन्वन्तरौ सुरे । अमृतामलकीपथ्यागुडूचीमागधीषु च ॥२२७।। अनृतं कर्षणेऽलीके चाक्षतः स्यादहिंसिते ॥
पंडे लाजेष्वदितं तु वातव्याधौ हतेऽर्थिते ॥२२८॥ कुक्कण (उ० १९०) साधुः । हरति हिरण्यं । हिरण्यवर्जन्यादय (उ० ३८०) इति साधुः । हिरणं क्लीबे। हिरण्यं हेम्नि पुंक्लीबेऽन्यत्र क्लीबे । त्रिष्वपि हिरणं यथा-हिरणं कारणं श्रियः। वराटे हेम्नि च हिरण्यं यथा-हिरण्यमेवार्जय निष्फला: कलाः । हिरण्यमक्षय्याकुप्यमानभेदद्रव्येष्वपि ॥२२५।। अथ तान्ताः । अमृतं यज्ञशेषेऽम्बुसुधामोक्षेष्वयाचिते। अन्नकांचनयोर्जग्धौ खे स्वादुनि रसायने घृते हृद्ये गोरसे च । नास्ति मृतमस्मादस्मिन्वा अमृतं । न मृतं याचितं इति वा। चतुर्दशस्वर्थेषु क्लीबे । यज्ञशेषे यथा-नित्यं चामृतभोजनः । अंबुनि यथा- अमृतमिति वचसि सत्यपि विषमिति हि किमुच्यते वारि । सुधायां यथादेवासुरैरमृतमंबुनिधिर्ममन्थे। मोक्षे यथा-सेव्यतामक्षयो धीराः सश्रिये चामृताय च । अयाचिते यथा-यन्मनुः। ऋतुमुच्छशिलंक्षेयममृतं स्यादयाचितं । शेषेषु यथा-अमृते कस्य न प्रोतिः ॥२२६।। अमृतो धन्वन्तरौ सुरे। द्वयोर्यथा-अमृताय नमस्तस्मै । अमृतामलकीपथ्यागुडूचीमागधीषु च। सर्वा अप्योषधयः । गुडूच्यां यथा-क्षुद्रामृतानागरपुष्कराख्यैः ॥२२७॥ अनृतं कर्षणेऽलीके च। न ऋतं अनृतं । पापिष्टत्वात् । कर्षणं कृषिः । अलीकमसत्यं । तद्वति वाच्यलिङ्गः। द्वयोर्यथा-अनृते वर्तते पापं ।