________________
तृतीयः काण्डः
(१०१)
अजितस्तीर्थकृद्ध दे बुद्धे विष्णावनिर्जिते । अच्युतो द्वादशस्वर्गे केशवाभ्रष्टयोरपि ॥२२९॥ अव्यक्त प्रकृतावात्मन्यव्यक्तोऽस्फुटमूर्खयोः । अनन्तं खे निरवधावनन्तस्तीर्थकृद्धिदि ॥२३०।।
अक्षतं स्यादहिसिते । षंढे लाजेषु । न क्षण्यते अक्षतं । अहिंसिते वायलिंगः । लाजेषु पुंक्लीबः । लाजे पुंसि । बहुवचनान्त एव। अहिंसिति यथा-अक्षतः स्मरशरासनबाणैः। षंडस्तृतीया प्रकृतिः । लाजेषु मांगल्यतंडुलेषु । यथा-सुदक्षिणा साक्षतपात्रहस्ता। अदितं तु वातव्याधौ हतेऽथिते । अर्घते स्म अदितं । हतार्थितयोर्वायलिंगः । हते यथा-हृदये दिग्धशरैरिवादितः अथिते यथा-कदर्यकुर्दतेऽदितः ॥२२८।। अजितस्तीर्थकृद्भदे । बुद्धे विष्णावनिजिते । न जीयतेऽजितः । अनिजिते वायलिंगः। तीर्थकृद्भदे द्वितीयतीर्थ करे यथा - श्रीमंतमजितं देवं सर्वतः प्रणिदध्महे । शेषेषु यथा-जीयादजितः परैरजितः। अच्युतो द्वादशस्वर्गे केशवाभ्रष्टयोरपि। न च्यवतेऽच्युतः। अभ्रष्टे वायलिंगः। द्वादशस्वर्गे यथा-अच्युतेन्द्रश्च्युतो दिवः । केशवे यथा-शुचिस्मितां वाचमवोचदच्युतः । अभ्रष्टे यथा-अच्युतेषु सलक्ष्यतः ॥२२९।। अव्यक्तं प्रकृतावात्मनि । न व्यक्तं अव्यक्तं । प्रकृतिः सांख्योक्ता । तत्र यथा-सावयवं परतन्त्रं व्यक्तं विपरीतमव्यक्तं । आत्मनि परात्मनि यथा - अव्यक्तादण्डमभवत् । अव्यक्तोऽस्फुटमूर्खयोः । वायलिंगः । अस्फुटे यथा-अव्यक्तमित्यभिहिते मनुजेश्वरेण । मूर्खे यथा-न वक्तियुक्तमव्यक्तः । अनंत खे निरवधौ। नारत्यंतोऽस्य अनंतं । निरवधौ वायलिंगः । खे आकाशे यथा-अनन्तमारोहति तेजसा रविः । निरवधौ