________________
(१०२)
अनेकार्थसंग्रहः सटीक :
विष्णौ शेषेऽप्यनन्ता गुडूचीभूर्दुरालभा । विशल्या लांगलीदूर्वा शारिवाहैमवत्यपि ॥ २३९ ॥ अस्वंतमशुभे क्षेत्रे चुल्यामनवधौ मृतौ । अमतिः काले चंडे चाप्यंकतिर्वह्निवेधसोः ॥ २३२॥ अग्निहोत्रण्यगस्तिर्दु मुन्योः स्याददितिर्भुवि । देवमातरि पार्वत्यामंहतिस्त्यागरोगयोः ॥२३३॥
यथा-अनन्ता वाङ्मयस्याहो गेयस्येव विचित्रता । अनन्तस्तीर्थ - कृद्भिदि । विष्णौ शेषेऽपि । तीर्थकृद्भ ेदे चर्तुदशे तीर्थकरे यथानमः श्रीमदनंताय वीतरागाय तायिने ।। २३० ।। विष्णौ यथा - लक्ष्मीरनन्तस्य निबद्धभावा । शेषे नागराजे यथा अनन्तभोगीन्द्रफणामणिप्रभाप्रवृद्धसक्तौ शुभकान्ति वो हरेः । अशेऽपि मंख । यथा-अनन्तो जगदन्तकः । अनन्ता गुडूची भूर्दुरालभा । विशल्या लांगली दुर्वा शारिवा हैमवत्यपि । भूर्भूमिः । तत्र यथा - सप्तसागर - पर्यन्तामनंतां भ्राम्यता भया शेषा ओषधयः ॥२३१॥ अस्वंतमशुभे क्षेत्रे चुल्यामनवधौ मृतौ । न विद्यते शोभनोऽतोऽस्य अस्वंतं । अशुभे धर्ममात्रे क्लीबे तद्वति अनवधौ च वाच्यलिंगः । पंचस्वपि यथा - अस्वन्तं स्वान्तदुःखदं । अमतिः काले चंडे चापि अमत्यमतिः । स्वल्पमित्यति । काले यमे पुंसि । चंडे वाच्यलिंगः | अंकतिर्वह्निवेधसोः । अग्निहोत्रणि । अच्यते अंकतिः । अंचे: कचवेत्यतिः । पुंसि ।।२३२ || अगस्तिद्रुमुन्योः स्यात् । अगति अगस्ति । अगिवलीत्यस्तिक् ( उ० ६६० ) पुंसि । द्रुवृक्षविशेषः । तत्र यथा - प्रयाणं भूभुजां युक्तमगस्ति कुसुमोद्गमे । मुनौ यथासमे पीतं च भुक्तं च अगस्तिर्जरयिष्यति । अदितिर्भुवि । देवमातरि पार्वत्यां । न ददाति अदितिः । मञ्ञोडागोडितिः ।