________________
तृतीयः काण्डः
(१०३)
आपातः पाततत्कालेऽप्याहृतः सादरेऽर्चिते । आख्यातं भाषितेत्यादावाघ्राते ग्रस्तशिघिते ॥२३४॥ . आप्लुतः स्नातके स्नातेऽप्यावर्तः पयसां भ्रमे । आवर्तने चिन्तने चान” जनपदे जने ॥२३५।।
स्त्रियां । त्रिष्वपि यथा-दुरितान्यदितिर्थमु । अंहतिस्त्यागरोगयोः। हंति अंहतिः। हंतेह च (उ० ६५४) इति अतिः। स्त्रियां त्यागो दानम् । रोगो रोगभेदः ॥२३३।। आपातः पाते तत्काले । आपतनं आपतन्त्यत्र वा आपातः। पाते यथा-पुष्पापातस्तकितमिदं भूतलं भूतभर्तुः । तत्काले यथा-आपातरम्या विषयाः पर्यंतपरितापिनः। आइतः सादरेऽचिते। आद्रियते आइतः । कर्तृ कर्मणोः क्तः । वायलिंगः। सादरे यथा-इति स्म पृच्छत्यनुवेलमादृतः। प्रियासखी: उत्तरकोशलेश्वरः। अचिते यथाइत्यादृतः सतरसारससारवह्निः। आख्यातं भाषिते त्यादौ । आख्यायते स्म आख्यातं । भाषिते वायलिंगः । त्यादिस्त्याद्यन्तं पदं द्वयोर्यथा-मा स्म संधि विजानन्तु मा स्म जानन्तु विग्रहं । आख्यातं यदि शृण्वन्ति भूयास्तेनैव पंडिताः । आघ्राले ग्रस्तशिघिते आघ्रायते स्म आघ्रातं । वायलिंगः। ग्रस्ते यथाव्याघ्राघ्रातमृगी कृपा कुलमृगन्यायेन हिंसारुचे। शिघिते यथास शीघ्रमाघ्रातकदंवगंधः ॥२३४॥ आप्लुतः स्नातके स्नाते पि । आप्लवते स्म आप्लुतः। स्नाते वाच्यलिंगः। वेदं समाप्य स्नातः स्नातकः । तत्र यथा-आप्लुतः प्लवते गृहं। स्नाते यथा-आप्लुतास्तोरमंदारकुसुमोक्तकरवीचिषु। आवर्तः पयसां भ्रमे । आवर्तने चिन्तने च। आवृत्यतेऽनेन आवर्तनं वा आवर्तः। पयसां भ्रमे यथा-संसप॑त्याः स्खलितसुभगं दर्शितावर्त्तनाभेः ।