SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ (१०४) अनेकार्थसंग्रहः सटीकः समरे नृत्यशालायामाहतं तु मृषार्थके । गुणिते ताडिते चाप्याध्मातः शब्दितदग्धयोः ॥२३६।। वातरोगेप्यथास्फोतः कोविदारापर्णयोः । आस्फाता गिरिकां च वनमाल्ल्यामथाचितः ॥२३७।। आवर्तनं भ्रमिः। पुनः पुनरध्ययनं वा। भ्रमौ यथा-चक्रावतविवत्तितक्षितिरजःपुंजैनभस्छादितं। अध्ययने चिन्तने च यथा-मंत्रावर्त्तप्रणिहितमना वर्त्तते सौ मुनीन्द्रः। आन” जनपदे जने । समरे नृत्यशालायां । आनृत्यत्यसौ अस्मिन् वा आनर्तः। जनपदो देशविशेषः। जनस्तन्निवासी ॥२३५।। समरे नृत्यशालायां च यथा-आननिर्तनविवर्तितखड्गवल्ली कान्ताक्षतक्षपितशत्रुनिकायकायः। आहतं तु मृषार्थके। गुणिते ताडिते चापि । आहन्यते आहतं वायलिंगः। मृषार्थके पा-धिक् धिक् तवाहतमिदं वचनं वंचनात्मकम् । गुणिते यथा-पंचाहतैश्चतुर्भिर्वराटकैः काकणी चैका। ताडिते यथा-आहतं कुचतटेन तरूण्याः साधुसोढममुनेति पपात । आध्मातः शब्दितदग्धयोः । वातरोगे पि । आध्मायते स्म आध्मातः। शब्दितदग्धयोर्वायलिंगः। शब्दिते यथा-आध्माते पांचजन्ये जनयति जनतानंदकन्दप्ररोहम् । दग्वे तापिते यथा-आध्मातताम्रच्छविः ।।२३६।। वातरोग आयुर्वेदप्रसिद्धः। अथास्फोतः कोविदारार्कपर्णयोः। आस्फायते आस्फोतः। आस्फायेडिदित्योतः। कोविदारार्कपर्णी वृक्षौ। आस्फाता गिरिकर्यां च वनमाल्ल्यां । एते ओषधी । अथाचितः। छादिते शकटोन्मेये पलानामयुतद्वयोः। संगृहीतेपि। आचीयते स्म आचितः। छादिते संगृहीते च वायलिंगः। छादिते यथाचैत्येषु तेषु कुसुमप्रकराचितेषु। शकटेन उन्मेयः शकटोन्मयः।
SR No.002280
Book TitleAnekarth Sangraha Satik Part 02
Original Sutra AuthorHemchandracharya
AuthorMahendrasuri, Jinendravijay
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages542
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy