________________
ततोयः काण्ड:
(१०५)
छादिते शकटोन्मेये पलानामयुतद्वयोः । संगृहीतेप्यथायस्तः क्लेशिते तेजिते हते ॥२३८।। क्रुद्ध क्षिप्तेऽथायतिः स्यात्प्रभावोत्तरकालयोः । दैर्घ्य संगेऽप्याकृतिस्तु जातौ रूपे वपुष्यपि ॥२३१॥ आयत्तिर्वासरे स्नेहे वशित्वे स्थाम्नि सीम्नि च । आसत्तिः संगमे लोभेप्यापत्तिः प्राप्तिदोषयोः ॥२४०।।
शकटेन वोढुं शक्यो भार इत्यर्थः। पलानामयुतद्वयं दश भाराः। एवं च आचितशब्द एकस्मिन् भारे दशसु च भारेषु वर्तते इत्यर्थः । यदमरः। “आचितो दश भाराः स्युः शाकटो भार आचितः" ॥२३७।। संगृहीते यथा-अर्द्धचितासत्वरमुच्छि च्छ्रितायाः। अथायस्तः । क्लेशिते तेजिते हते । क्रुद्धे क्षिप्ते । आयस्यति आयस्यते वा आयस्तः। पंचस्वर्थेषु वायलिंगः। क्लेशिते क्षिप्ते च यथा-आयस्तमैक्षत जनश्चटुलाग्रपादं गच्छन्तमुच्छलितचामरचारुमश्वं । तेजिते यथा-आयस्तासिलतोल्लसद्रिपुकुले कालायमानो रणे । हते यथा-मंथायस्तार्णवांभः प्रतिकुहरचलन्मन्दरध्वानधीरः ॥२३८॥ क्रुद्ध यथा-आयस्तशनिवहाहननप्रवृद्धः। अथायतिः स्यात्प्रभावोत्तरकालयोः। दैये संगेपि। आयस्यतेऽनया आयतिः। आयतंतेऽस्यामिति वा स्त्रियां । प्रभावोत्तरकाले च यथा-रहयत्यापदुपेतमायतिः। दैर्घ्यं यथाबिभ्राणमायतिमतीमवृथाशिरोधम् । संगः संश्लेषः। आकृतिस्तु जाती रूपे वपुष्यपि । आक्रियतेऽनया आकरणं वा आकृतिः। स्त्रियां । जातौ यथा-क्षत्राकृतिः कोऽपि युवा प्रविष्टः। रूपं संस्थानविशेषः । तत्र यथा-यत्राकृतिस्तत्र गुणा वसन्ति । वपुषि यथाअलभ्यशोकाभिमवेयमाकृतिः ॥२३९॥ आयत्तिर्वासरे स्नेहे