________________
अनेकार्थसंग्रहः सटोकः wwwwwwwwwwwwwwwwwwwwwwww
आपद्यपींगितं तु स्याच्चेष्टायां गमनेपि च । उत्तप्तं चंचले शुष्कमांससंतप्तयोरपि ॥२४१।। उचितं विदितेऽभ्यस्ते मिते युक्तप्यथोत्थितम् ।
वृद्धिमत्प्रोधतोत्पन्नेषूदितं तूद्गतोक्तयोः ॥२४२॥ वशित्वे स्थाम्नि सीम्नि च । आयतन्तेऽत्र आयतनं वा आयत्तिः। स्त्रियां। सर्वेषु यथा-आयत्तौ कार्यसंपत्तिः। आसत्तिः संगमे लोभे पि। आसदनं आसत्तिः। स्त्रियां । द्वयोर्यथा-बाणाहवे व्याहतशंभुशक्तेरासक्तिमासाद्य जनार्दनस्य । आपत्तिः प्राप्तिदोषयोः । आपद्यपि। आपदनं आपत्तिः। स्त्रियां । त्रिष्वपि यथा-द्रव्यापत्तौ भवति न मनो विह्वलं कस्य कस्य ॥२४०॥ इंगितं तु स्याच्चेष्टायां गमनेऽपि च । इगु गतौ। इंगनं इंगितं । द्वयोर्यथा-तस्य संवृतमंत्रस्य गूढाकारेंगितस्य च । उत्तप्तं चंचले शुष्कमांससंतप्तयोरपि । उत्तप्यते स्म उत्तप्तं चंचलसंतप्तयोर्वाच्यलिंगः । चंचले यथा-उत्तप्तसप्लिनिवहाप्रकुतूहलानाम् । शुष्कमांसे यथाउत्तप्ते कृमयो यथा। संतप्ते यथा - कुपितमदनमुक्तोत्तप्तनाराचलीलाम् ।।२४१॥ · उचितं विदितेभ्यस्ते मिते युक्तेऽपि । उच्यति स्म उचितं । चतुर्वर्थेषु वायलिंगः। विदितं ज्ञानं तत्र यथा-स्पर्शमुष्णमुचितं दधच्छिखी यद्वदाह हविरद्भुतं न तत् । अभ्यस्ते यथा-मम्लनुर्न मणिकुट्टिमोचितो। मातृपार्श्वपरिवर्तनाविव । मिते यथा-उचितरुचितवादी कैर्न वंद्यो मुनीन्द्रः । युक्ते यथा-उचितमनुचितं वा वेत्ति कः पंडितोऽपि । अथोत्थितं । वृद्धिमत्प्रोद्यतोत्पन्नेषु । उत्तिष्ठते स्म उत्थितं । वाच्यलिंगः । वृद्धिमति यथा-गृहादग्निरिवोत्थितः। प्रोद्यतः सोद्वेगस्तत्र यथासमरायोस्थितस्तदा । उत्पन्ने यथा-उपप्लवाय लोकानां धूमकेतु.