________________
तृतीयः काण्डः
(१०७)
उद्धृतं स्यादुत्तुलिते परिभुक्तोज्झितेऽपि च । उषितं न्युषिते प्लुष्टे उच्छ्रितं तूच्चजातयोः ॥२४३॥ प्रवृद्ध स्यादथोद्वान्त उद्गीर्णे निर्मदे द्विपे ।
उदात्तोदातृमहतोहूं ये च स्वरभिद्यपि ॥२४४॥ रिवोत्थितः। उदितं तूद्गतोक्तयोः। उदेति स्म उदितं । उद्यतो स्मेति वा। वायलिंगः । उद्गते यथा-उदिते तु सहस्रांशौ न खद्योता न चन्द्रमाः। उक्ते यथा-अधिरुह्यतामिति महीभृतोदितः कपिकेतनापितकरो रथं हरिः ॥२४२।। उद्धृतं स्यादुत्तुलिते परिभुक्तोज्झितेपि च । उद्धियते स्म उद्धृतं । वायलिंगः। उत्तुलिते उत्क्षिप्ते यथा-वल्मीकः किमुतोद्धृतो गिरिरियात्कस्य स्पृशेदाशयम। परिभुक्तोषिते यथा-क्षिपेदप्सूद्धृतं ततः। उषितं न्युषिते प्लुष्टे । वसति स्म उषितं । क्ते क्षुधवसस्तेषामितीटि । यजादि ति पृतिघस्वस इति षत्वम् । उषू दाहे तस्य वा मतांतरेणेति उषितं । वायलिंगः। न्युषिते यथा-वने व्याधैः सार्द्ध सुचिरमुषितं वल्कलधरैः। प्लुष्टं दग्धं तत्र यथा-उषितशिखरि शाखी दाववह्निः क्व चैषः । उच्छ्रितं तूच्चजातयोः। प्रवृद्ध स्यात् । उच्छ्रयति स्म उच्छ्रितं । वायलिंगः। उच्चे यथा-अत्युच्छ्रितेषु गिरिकुटतटेषु वायोः। जाते यथा-उच्छ्रितां कुरु विराजितांतरा ॥२४३।। प्रवृद्धे पथा-उच्छ्रितानि पतितानि पतितान्युच्छ्रितानि च । अथोद्वान्त उद्गीर्णे निर्मदद्विपे। उद्वम्यते उद्वमति स्म वा उद्वान्तः । उद्गीर्णे वायलिंगः। तत्र यथा-उद्वान्तगरलैः सः । निर्मदद्विपो मदरहितो गजः। उदात्तोदातृमहतोह ये च स्वरभिद्यपि । उदादत्ते स्म उदात्तः । स्वरभिदि पुंसि । अन्यत्र वायलिंगः । दातरि यथा-किमदेयमुदात्तानां । महति हृद्ये च यथा-धीरो