________________
(१०८) अनेकार्थसंग्रहः सटीकः
उन्मत्तो मुचकुन्दे स्याद्धतूरोन्मादयुक्तयोः । उदंतः साधौ वार्तायामुद्वातः समुपक्रमे ॥२४५॥ मुद्गरेऽभ्यासयोगाय कुंभकादित्रयेऽपि च । पादस्खलन उद्गेऽप्युन्नतिस्ता_योषिति ।।२४६॥ उदये च समृद्धावप्येधतु नरि पावके ।
कंदितं रुदितं हतौ कलितं विदिताप्तयोः ॥२४७॥ दात्तगुणोत्तरो रघुपतिः। काव्यार्थबीजं स्वरभिदि यथानिहत्यरीनेकपदे उदात्त: स्वरानिव ॥२४४।। उन्मत्तो मुचकुंदे स्याहत्तूरोन्मादयुक्तयोः । उन्माद्यति स्म उन्मत्तः। उन्मादयुक्ते वायलिंगः मुचकुन्दो वृक्षजातिः। धत्तूरे यथा-उन्मत्तकरसास्वादां। उन्मादयुक्ते यथा-उन्मत्तेव भ्रमति भवतो वल्लभा हन्त कीर्तिः । उदंतः साधौ वार्तायां। उद्गतो अन्तोऽस्य उदंतः। साधौ वाच्यलिंगः। तत्र यथा - उदंता दांतचेतसः। वार्तायां यथाकान्तो दान्तः सुहृदुपहृतः संगमात्किचिदूनः। उद्वातः समुपक्रमे । मुद्गरेऽभ्यासयोगाय कुंभकादित्रयेपि च । पादस्खलन उद्रंगेऽपि । उद्वननं उद्वन्यते अनेन वा उद्वातः। पंचस्वर्थेषु समुपक्रमे आरंभे यथा-आकुमारकथोद्वातं शालिगोप्यो जगुर्यशः ।।२४५॥ मुद्गरे यथा-उद्वातघातित्तपदाति रयं प्रयाति । योगिनां पवनजयनिमित्तं योऽभ्यासयोगस्तदर्थ कुंभकरेचकपूरकत्रयं । पादस्खलने यथा-ययावनुद्वातसुखेन मार्गम् । उद्गतो रंगोऽस्य उद्भगः। द्रव्यभेदः । उन्नतिस्ताययोषिति । उदये च समृद्धावपि । उद्गता मतिर्यस्या उन्नमनं वा उन्नतिः । स्त्रियां। तार्थ्ययोषित् गरुडपत्नी ॥२४६।। उदयसमृद्धयोर्यथा-असतामनिशं तथाप्यहो गुरुहृद्रोगकरी तदुन्नतिः । एधतुर्नरि पावके । एधते एधतुः । वहिमहिगुह्ये