________________
तृतीयः काण्ड:
किरातः स्यादल्पतनौ भूनिम्बम्लेच्छयोरपि । किराती कुट्टनी गंगा कृतांतोऽक्षेमकर्मणि ॥२४८॥ सिद्धान्तयमदेवेषु गजितो मतकुंजरे । गर्जितं जलदध्वाने ग्रन्थितं हतहब्धयोः ॥२४९।।
धिभ्योऽतुः। (उ० ७७९)। ना मनुष्यः। पावकाऽग्निः । कंदितं रुदितं हुतौ । क्रन्दनं ऋदितं । रुदिते यथा-हा तातेति ऋदिलमाकर्ण्य विषण्ण: । हूतिराकारणं । कलितं विदिताप्तयोः । कल्यले स्म कलितं । वायलिंगः। विदिते यथा-अकलितविदैव नियोगाः। आप्ते यथा-पायात्स वः शशिकलाकलितावतंसः। संख्याततुलितक्षिप्रशब्दितेष्वपि मंखः। संख्याते यथा-अकलिततपस्तेजोवीर्यप्रथिम्नि यशोनिधौ। तुलि . यथा-करकलितहराद्रेर्दुष्करं कि हि तस्य । क्षिप्ते यथा-संग्रामे कलितोऽपि शत्रुनिवहस्तुष्टाव कीर्ति तव । शब्दिते यथा-कलितकीर्तिषु शकमुखेषु ॥२४७।। किरातः स्यादल्पतनौ भूनिम्बम्लेच्छयोरपि । किरति किरातः । कृ वृ कल्पलीत्पातक् । (उ० २०९) अल्पतनौ यथा-पर्यंताश्रमिभिनिजस्य सदृशं नाम्नः किरातः कृतं । कुब्जानी च तयैव यांति शनकरात्मेक्षणाशंकिनः। भूनिंबः । किराततिक्ताख्यमोषधं । म्लेच्छे यथा-विंदन्ति मार्ग नखरंध्रमुक्तैर्मुक्ता फलैः केसरिणां किराताः । किराती कुट्टनी गंगा । गौरादित्वाद् ङीः। कुट्टनी संभली । गंगा जाह्नवी । द्वयोर्यथा-भ्रातर् द्विजपरित्यक्ताकिरातीयं करोतु किम् । कृतांतोऽक्षेमकर्मणि । सिद्धान्तयमदैवेषु । कृतस्यान्तः कृतान्तः । कृतः सिद्धोंऽतोनिष्ठाऽस्य वा । कृतोऽन्तोऽनेन वा कृतांतः । चतुर्वर्थेषु अक्षेमकर्मणि अशुभे कर्मणि यथा-कृती कृतान्तं कुरुते न जातु ॥२४८॥ सिद्धान्ते यथा