________________
(११०)
अनेकार्थसंग्रहः सटोकः
-
आक्रान्ते च गरुत्मांस्तु विहगे पन्नगाशने । गभस्तिः स्याद्दिनकरे स्वाहाकिरणयोरपि ॥२५०।। गोदंतो हरिताले स्यात्संनद्धे दंशितेऽपि च । गोपतिः शंकरे षंडे नपतौ त्रिदशाधिपे ॥२५१॥ .
कृतान्तमाप्नोति न निविवेकः। यमे यथा-कृतांत: कुपितस्तस्मै तस्मिन्दैवं पराङ्मुखम् । दैवे यथा-क्रूरस्तस्मिन्नपि न सहते संगम नौ कृतान्तः। जितो मत्तकुंजरे । गर्जति स्म गजितः। मत्तकुंजरो मत्तगजस्तत्र गजितशब्दो भारतादौ प्रसिद्धः। गजितं जलदध्वाने गर्जनं गजितं यथा - तच्छु त्वा ते श्रवणसुभगं गजितं मानसोक्ताः । जलदेत्युपलक्षणं । तेनान्यत्रापि । यथासिन्धुध्वानिनि हुकृते स्फुरति यत्तद्गजितं गजितम् । प्रन्थितं हतब्धयोः । आक्रान्ते च। ग्रंथ्यते स्म ग्रंथितं । वायलिंगः । त्रिष्वपि यथा-ग्रंथितं दयितया नवमाल्यं ॥२४९॥ गरुत्मांस्तु विहगे पन्नगाशने । गरुं ति विद्यतेऽस्य गरुत्मान् । विहगे यथा-विदूरभावेन रवेर्गरुत्मतां । पन्नगाशने यथा-कि भक्षणात्त्वं विरतो गरुत्मन् । गभस्तिः स्याद्दिनकरे स्वाहाकिरणयोरपि । गृध्यति गभस्तिः । गृधेर्गमचेति (उ० ६६१) अस्तिक। स्वाहायां स्त्रियां। शेषयोः पुंसि । दिनकरे यथाध्वान्तं हिनस्ति द्युतिभिर्गभस्तिः । स्वाहा अग्निभार्या । किरणे यथा-गभस्तीनां पत्युस्तितउतुलनां मंडलमगात् ॥२५०।। गोदन्तो हरिताले स्यात् । संनद्धे दंशितेऽपि च । गुध्यते गोदन्तः । सीमन्त हेमन्त (उ० २२२) इति साधुः । गां दाम्यति था। दम्यमीति (उ० २००) साधुः । संनद्धदंशितयोर्वायलिंगः । हरितालं धातुभेदः । तत्र पुंसि । क्लीबेऽपि केचित् । संनद्धो