________________
तृतीयः काण्डः
(१११)
-
सहस्रकिरणे चापि ज्वलितौ दग्धभास्करौ । जयन्तावैन्द्रिगिरीशौ जयन्त्युमापताकयोः ॥२५२।। जीवन्त्यामिन्द्रपुत्र्यां च जगतीच्छंदसि क्षितौ । जंबूवप्रे जने लोके जामाता दुहितुः पतौ ॥२५३।।
व्यूढकंकटः । दंशितो दष्टः । गोपतिः शंकरे षंढे नृपतौ त्रिदशाधिपे। सहस्रकिरणे चापि । गोर्वृ षस्य उस्रायाः पृथिव्याः स्वर्गस्य त्विषां वा पति: गोपतिः। शंकरे षंढे त्रिदशाधिपे च यथा-मनः प्रीणाति मोपतिः । नृपतौ सहस्रकिरणे च यथाकामत्यंबरखंडमात्रविभवो देशांतरं गोपतिः ।।२५१।। ज्वलिलो दग्धभास्वरौ । ज्वलति स्म ज्वलितः। वायलिंगः । दग्धे यथा-हुतभुजा ज्वलिता वनान्तः । भास्वरे यथा-ज्वलितं न हिरण्यरेतसं । चयमास्कंदति भस्मनां जनः । जयन्तावैद्रिगिरीशौ । जयति जयन्तः । न जि भू इत्यंतः । ऐंद्रिरिन्द्रसुतः । तत्र यथा-यथा जयंतेन शचीपुरंदरौ । गिरीशे शंभौ यथा-पुरा विजेता जयताज्जयंतः । जयन्त्युमापताकयोः । जीबत्यामिन्द्रपुत्र्यां च । उमायां धवयोगादन्यत्र तु गौरादित्वाद्डीः । जीवन्ती मधुस्रवा। चतुर्वपि यथा-जगज्जयंती स्वगुणैर्जयन्ती ॥२५२।। जगतीच्छंदसि क्षितौ । जंबूवप्रे जने लोके । गच्छति जगती। गमेम: द्वेनेति कर्तृ: । अधातुहृदित इति डीः। छन्दो द्वादशाक्षराजातिः। यदाह-त्रिष्टुप् च जगती चैव । क्षितौ पृषिव्यां यथा- त्रिःसप्तकृत्वा जगतीपतीनां । जंबूर्जबूद्वीपस्तस्य वप्रः । तत्र यथा-जगतीजालकटकैः । जनः प्रजा। लोको विष्टपं । तत्र यथा-सत्यं सुंदरि वेधसस्त्रिजतीसारं त्वमेका