________________
(११२)
अनेकार्थसंग्रहः सटोकः
सूर्यावर्त वल्लभे च जीमूतो वासर्वेऽबुदे । घोषकेऽद्रौ भृतिकरे जीवन्ती शमिवंदयोः ॥२५४॥ जोवन्त्यां च गुडूच्यां च जोवातुर्जी वनौषधे । जीविते च जंभितं तु विचेष्टितप्रवृद्धयोः ।।२५५॥
कृतिः । जामाता दुहितुः पतौ सूर्यावर्ते वल्लभे च । जायां प्रजायां मिन्वंति तमिति जामाता । जायामिग (उ० ८६०) इति तृः । दुहितुः पतौ यथा - जामातुरग्रसरतां प्रपद्य ॥२५३।। सूर्यावर्त ओषधिः। वल्लभो दयितः। जीमूतो वासवेंऽबुदे । घोषकेऽद्रौ भृतिकरे । जीवंत्यनेन जीमूतः। जीवेर्मवेत्यूतः । जीवनस्य जलस्य मूतः पुटबंधो वा । पृषोदरादित्वात् । घोषकभृतिकरयोर्वाच्य लिंगः। वासवे यथा-पौलोमीवल्लभः सोऽयं जीमूतो वै प्रवर्षति । अम्बुदे यथा-जीमूतेन स्वकुशलमयी हारयिष्यन्प्रवृत्ति । घोषकः पुनः पुनरुच्चैः शब्दकर्ता अद्रौ यथा-धन्यास्ते क्षपयंति जीवितमिदं जीमूतकुंजे क्वचित् । भृत्यां भृति वा करोति भृतिकरः। जीवन्ती शमिवंदयोः। जीवन्त्यां च गुडूच्यां च । जीव्यादिति जीवन्ती। रुदि नंदीति टिदंतः। शमिवृक्षः। वंदो वृक्षरुहानाम वृक्षः। यो वृक्षस्योपरि प्ररोहति ।।२५४।। जीवन्तो मधुस्रवा। गुडूची अमृता। जीवातुर्जीवनौषधे । जीविते च । जीव्यतेऽनेन जीवनं वा जीवातुः। जीवेरातुः। पुंक्लीबः। जीवनस्यौषधमुपायः। तत्र यथा - प्राचीमंकुरयंति किंचन रुचो राजीवजोवातवः । जीविते यथा-जीवातवे विसृज शूद्रमुनौ कृपाणं। जंभितं तु विचेष्टितप्रवृद्धयोः । जं (जू) भायां स्फुटिते चापि । जंभणं जंभितं । चतुर्वपि यथा-रम्यं वदनभितं । क्रियावति वाच्यलिंगः ।।२५५।।