________________
तृतीयः काण्डः
(११३)
जंभायां स्फुटिते चापि त्वरितं वेगतद्वतोः । त्रिगर्तो गणिते देशे त्रिगर्ता कामुकस्त्रियाम् ॥२५६॥ घुघुमिथ तृणता तृणत्वे कार्मुकेऽपि च । दंशितो मिते दष्टे स्रवन्ती च द्रवन्त्यपि ॥२५७।। नद्यामोषधिभेदे च द्विजातिर्बाह्मणेऽडजे । दुर्जातं व्यसनासम्यक्जातयोरथ दुर्गतिः ॥२५८॥
त्वरितं वेगतद्वतोः। त्वरणं त्वरितं। त्वरते स्म वा। तद्वति वायलिंगः। वेगे यथा-शस्त्रं शस्त्रं न शस्त्री त्वरितमहह हा कर्कशत्वं नखानाम् । तद्वति यथा-त्वरितस्तुरगैर्ययुः। त्रिगतॊ गणिते देशे । त्रयो गर्तोऽस्य त्रिगर्तः । गणितं गणितभेदः । देशे प्रायेण 'भूम्नि । तत्र यथा-परित्रिगर्तं प्रववर्ष मेघः। त्रिगर्ता कामुकस्त्रियां घुघु-। कामुकी चासौ स्वी च कामुकत्री ॥२५६॥ घुघुरी किंकणी। अथ तृणता तृणत्वे कार्मुकेऽपि च । तृणस्य भावः तृणता। तृणवत्ताडयति वा। क्वचिदिति डे पृषोदरादित्वात् । तृणत्वे यथा-तां रत्नतां च तृणतां च निसर्गसिद्धां तेषां पुनर्घटयितु नियतं वराकः। कार्मुके यथा-कामुकानि वनालिकान् तृणताः सहसामुचन् । वल्लभस्तु धनुषि त्रिषु नता तृणता इत्याह । तत्र तु गणिकापक्षे णत्वं चिन्त्यम् । दंशितो वमिते दष्टे । दंशेयंतात् क्ते दंशितः। दंशः संजातोऽस्य वा वाच्यलिंगः। वमिते यथा-दंशितै शितं बलं। दष्टे यथा-दंदशूकैश्च दंशिता। स्रवन्तीव द्रवंत्यपि नद्यामोषधिभेदे च। स्रवति द्रवति च स्रवन्ती द्रवंती च ॥२५७।। नद्यां यथा-परकोर्तिस्रवतीनां न प्रवेशमदत्त यः । ओषधिभेद: आखुपर्णी । द्विजातिाह्मणंऽडजे ।
*मु० मू० तालितं स्तनिते वस्त्रे वाद्यभाण्डे गुणे स्तुतौ। त्रिगर्तो।