________________
(११४)
अनेकार्थसंग्रह सटीकः
नरके निःस्वतायां च दृष्टान्तः स्यादुदाहृतौ । शास्त्रेऽथ निकृतं विप्रलब्धे विप्रकृतेऽधमे ॥२५९।। निरस्तः प्रेषितशरे संत्यक्ते त्वरित्वोदये ।
निष्ट्यूते प्रतिहते च निमित्तं हेतुलक्षमणोः ॥२६०॥ द्विर्जातिर्जन्माऽस्य द्विजातिः । ब्राह्मणेत्युपलक्षणं तेन क्षत्रियवैश्यावपि । यदाह-ब्राह्मणः क्षत्रियो वैश्यः त्रयोवर्णा द्विजातयः । ब्राह्मणेऽडजे च यथा-द्विजातीनां शब्दैर्मुखरितविभाते सुदिवसे । दुर्जातं व्यसनासम्यक्जातयोः । दुर्जायते स्म दुर्जातं । असम्यक् जाते वायलिंगः । व्यसने यथा-दुर्जातबंधुरयमृच्छ हरीश्वरो मे । असम्यक् जाते यथा-दुर्जातास्ते व्यसननिवहाः केन शक्याः विसोढुम् । अथ दुर्गतिः । नरके निःस्वतायां च । निंदिता गतिर्दुगतिः ॥२५८॥ नरके स्त्रीपुंसः। निःस्वतायां स्त्रियां । द्वयोर्यथा-त्वत्पादपंकेरुहपांसुलिप्तो। न दुर्गतिं याति जनः कदाचित् । दृष्टान्तः स्यादुदाहृतौ । शास्त्रे । दृष्टोऽतो निश्चयोऽत्र दृष्टान्तः । उदाहृतौं यथा-पूर्णचन्द्रोदयाकांक्षी दृष्टान्तोऽत्र महार्णवः । शास्त्रे यथा-अभ्यस्तदृष्टान्तशतस्य तस्य । अथ निकृतं विप्रलब्धे विप्रकृतेऽधमे । निक्रियते स्म निकृतं । वाच्यलिंगः। विप्रलब्धो वंचितः । विप्रकृतः पराभूतः । तयोर्यथानिकृतोऽपि न याति विक्रियां । अधमः क्रूरः ।।२५९।। निरस्त: प्रेषितशरे संत्यक्ते त्वरितोदिते । निष्ट्यूते प्रतिहते च । निरस्यते स्म निरस्तः । प्रेषिते शरे पुंसि । अन्यत्र वाच्यलिंगः । प्रेषितशरे प्रतिहते च यथा-राज्ञा निरस्तैः रिपवो निरस्ताः । संत्यक्ते यथा-निरस्तनारीसमयादुराधयः । त्वरितोदिते यथाएते निरस्तवचनाः सूचयन्त्यत्तिमातुराम् । निष्ट्यूते यथा