________________
तृतीयः काण्डः
(११५)
निवातो वातरहिते दृढसन्नाह आश्रये । निर्मुक्तो मुक्तनिर्मोकभुजगे निष्परिग्रहे ॥२६॥ निशांतं सदने शांते प्रभातेऽप्यथ निर्वतिः ।
मोक्षे मृत्यौ सुखे सौस्थ्ये निकृतिः शठशाठ्ययोः ॥२६२॥ निरस्तांबुकणोंऽबुदः । निमित्तं हेतुलक्ष्मणोः। निमियतेऽनेन निमित्तं । पुत्रपित्तेति (उ० २०४) साधुः। हेतुः कारणं । लक्ष्म लक्ष्मणं चक्षुः स्पन्दनादि । हेतौ यथा-पुंसां कुलं न हि निमित्तमुदात्ततायाः । लक्ष्मणि यथा-तां पुण्यदर्शनां दृष्ट्वा निमित्तज्ञस्तपोनिधिः ॥२६०।। निवातो वातरहिते दृढ़सन्नाह आश्रये । निवृत्तो वातोऽत्र निवायते गम्यते वा निवातः। वातरहिते वायलिंगः । अन्यत्र पुंक्लीबः। वातरहिते यथा- निवातनिष्कंपमिव प्रदीपं । दृढश्चासौ सन्नाहश्च दृढसन्नाहः । शस्त्राभेद्यं वर्म । तत्र यथा-निवातकवचच्छन्नशरीरास्ते भटा बभुः । आश्रये यथा-एते निवातास्तरवो मुनीनाम् । निर्मुक्तो मुक्तनिर्मोकभुजगे निष्परिग्रहे । निर्मु चति स्म निर्मुक्तः । निष्परिग्रहे वाच्यलिंगः। मुक्तनिर्मोकभुजगे। यथा - निर्मुक्तशेषधवलरचलेन्द्रमंथसंक्षुब्धदुद्यमयसागरगर्भगौरैः। निष्परिग्रहे यथा-निर्मुक्तो मुक्तिसौख्यभाक् । त्यक्तनिग्रंथिकयोरपि मंखः । क्रमेण यथानिर्मुक्तसर्वभावस्य । निर्मुक्तकवरीभारव्याप्तवक्षस्थलाऽधमे ।।२६१।। निशांतं सदने शान्ते प्रभातेऽपि । निशाम्यति स्म निशांतं । शान्ते वाच्यलिंगः । सदने यथा-इत्यल्पेतरकल्पना कवलितस्वान्ता निशांतान्तरे । शान्ते यथा-निशांतचित्रे मुनिपुंगवेऽपि । प्रभाते यथा-वसनमपि निशान्ते मेष्यते तत्प्रदातुम् । अथ निर्वृतिः । मोक्षे मृत्यौ सुखे सौस्थ्ये। निर्वरणं निर्वृतिः ।