________________
(११६)
अनेकार्थसंग्रहः स्टीकः
wwwmoranwwwwww
भर्त्सनेऽभिभवे क्षेपे निःकूतिनिरुपद्रवे । अलक्ष्म्यां दिवपतौ चापि नियती देवसंयमौ ।।२६३।। प्रभूतोद्गते प्राज्ये प्रसूतं जातपुष्पयोः । प्रतीतः सादरे प्राज्ञे प्रथिते ज्ञातहष्टयोः ॥२६४।।
स्त्रियां। मोक्षे यथा-अमूलमंत्रतंत्रं च कार्मणं निर्वृत्तिश्रियः । मृतौ यथा-गंगातटे निर्वृतिमाप भूपः । सुखे सौस्थ्ये च यथानितिर्हि मनसो मदहेतुः । निकृतिः शठशाठ्ययोः । भर्सनेऽभिभवे क्षेपे। निक्रियतेऽसौ अनया वा निकृतिः। शठे वाच्यलिंगः। अन्यत्र स्त्रियां । शठे यथा-वर्जयेन्निकृतीन्खलान् । शाठ्ये यथाअर्थस्य मूलं निकृतिः क्षमा च ॥२६२॥ भर्त्सनं कोपेन दंडाविष्करणं । अभिभवो घातप्रतिघातादिः । क्षेपो निन्दामात्र । एतेषु त्रिषु यथा-निकृतिपरेषु परेषु भूरिधाम्नः । निःकूतिनिरुपद्रवे । अलक्ष्म्यां दिक्पतौ चापि । निष्क्रांतकूतेः पोडायाः । निश्चिताकूतिरतो वा नि:कूतिः । निरुपद्रवे वायलिंगः। अलक्ष्म्यां स्त्रियाम् । दिक्पती पुंसि । निरुपद्रवे यथा-नि:कूतिधर्म कर्मठः। शेषयोर्यथा-पुण्यशेषेण विनाकृतः पुमान्। स याति निःकूत्युपभोग्यता हठात् । नियती दैवसंयमौ । नियम्यतेऽनया नियमनं वा नियतिः स्त्रियां । दैवे यथा-नियतिः केन विलंध्यते सखि । संयमे यथानियतिं विधाय चित्ते ॥२६३।। प्रभूतमुद्गते प्राज्ये । प्रभवति स्म प्रभूतं । वायलिंगः। द्वयोर्यथा-तृणैः प्रभूतैः परिभूषिता भूः। प्रसूतं जातपुष्पयोः। प्रसूते स्म प्रसूतं । जाते वायलिंगः । तत्र यथाभूभृद्भिरिक्ष्वाकुकुलप्रसूतैः। पुष्पे यथा-चूनप्रसूतैः कृतनव्यबाणः । प्रतीतः सादरे प्राज्ञे प्रथिते ज्ञात हृष्टयोः। प्रत्येति स प्रतीयते स्म वा प्रतीतः । पंचस्वर्थेषु वायलिंगः। सादरप्राज्ञयोर्यथा-तत्प्रती