________________
तृतीय: काण्ड:
प्रहृतं विस्तृते क्षुण्णे पलितं पंकतापयोः । केशे *केशपाके पंडित: सिल्हधीमतोः || २६५।।
( ११७ )
प्रणीत उपसंपन्ने कृते क्षिप्ते प्रवेशिते । संस्कृताग्नौ पर्याप्तं तु शक्त े पूर्णे निवारणे ॥ २६६ ॥
तमनसामुपेयुषां द्रष्टुमावहनमग्रजन्मनां । प्रथितज्ञातयोर्यथासोय वटः श्याम इति प्रतीतः । हृष्टे यथा- प्रत्युज्जगामागमनप्रतीतः ।। २६४ । । प्रहृतं विस्तृते क्षुण्णे । प्रहृण्यते स्म प्रहतं । वाच्यलिंगः | विस्तृते विस्तीर्णः । क्षुण्णो व्युत्पन्नः । द्वयोर्यथाशास्त्र प्रहतबुद्धिभिः । ताडितेऽपि । यथा-संगीताय प्रहतमुरजा । स्निग्धगंभीर घोषम् । पलितं पंकतापयोः । पक्वकेशे । केशपाके । पलति पलितं । हृश्यारुहि ( उ० २१० ) इति इत: । पलितानि सन्त्यस्य वा अभ्रादित्वादः । पंके पंकोपचारात् पानीयपृष्टवर्त्तमाने मलविशेषे तापे च यथा - पानीयनिर्गमनमार्गविवर्त्तनेन यानाद्रदाः पलितधूसरताममीयत् । पक्वश्चासौ केशश्च पक्व: केशोऽस्येति वा पक्वकेशः । कर्मधारयपक्षे पुंक्लीब: । बहुव्रीहिपक्षे वाच्यलिंगः । बहुव्रीहिपक्षे यथा- न तेन वृद्धो भवति येनास्य पलितं शिरः । केशस्य पाकः शौक्ल्यं केशपाकः । तत्र पक्व केशे च यथा- कैकेयीशंकये चाह पलितच्छद्मना जरा | पंडितः सिल्हधी मतोः । पंड्यते स्म पंडितः । पंडा बुद्धिः संजाताऽस्येति वा धीमति वाच्यलिंग: । सिल्हो गंधद्रव्यं । धीमति यथा - यः क्रियावान्स: पंडितः || २६५ || प्रणीत उपसंपन्ने कृते क्षिप्ते प्रवेशिते । संस्कृताग्नौ । प्रणीयते स्म प्रणीतः । संस्कृताग्नौ पुंसि । शेषेषु वाच्यलिंगः । उपसंपन्नं रूपरसादिनिष्पन्नमन्नादि । *प्र० शैलजाते ।