________________
(११८) अनेकार्थसंग्रहः सटीकः
यथेष्टे *प्रसृतस्त्वर्धांजली वेगिविनीतयोः । तते च प्रसृता जंघा प्रमीतं प्रोक्षिते मृते ॥२६७।। पर्यस्तं तु हते सस्ते प्रपातः °सौप्तिके भृगौ । पर्वतो गिरिदेवोः पक्षतिः प्रतिपत्तिथौ ।।२६८।।
तत्र यथा-प्रणीतमन्नं बुभेजे द्विजेन्द्रः । कृते यथा-भवत्प्रणोतमाचारमामनंति हि साधवः । क्षिप्ते यथा – धनुष्प्रणीतैः विशिखैः प्रणुन्नः। प्रवेशिते यथा-प्रधानवर्गस्य पुरः प्रणीतः संरकृताग्नौ यथा-प्रणीते जुहुयाद्धव्यम्। पर्याप्तं तु शक्ते पूर्णे (तृप्तौ) निवारणे । यथेष्टे । पर्याप्यते स्म पर्याप्तं । शक्तपूर्णयोर्वाच्यलिंगः। शक्ते यथा- पर्याप्तोपि स योद्ध मुद्धतमतिर्धत्ते नयान्नीचताम् । पूर्णे यथा-पर्याप्तपुष्पस्तबकस्तनीभ्यः । निवारणे यथा-पर्याप्तं तप्तवारिभिः। निवारणेऽव्ययमपि ।।२६६।। यथेष्टे यथा-पर्याप्तमाप्ताः प्रविशन्तु मध्ये। प्रसृतस्त्वर्द्धाजली वेगिविनीतयोः। तते च । प्रसरति स्म प्रसृतः। अर्द्धाजलौ पुमान् । अन्यत्र . वाच्य लिंगः। अर्धांजलो यथा-एतां मे प्रसृताक्षि विक्षिपसि कि तीक्ष्णां कटाक्षच्छटाम्। वेगिनि यथा-पश्यैष प्रमृतो हस्ती । विनीते तते च यथा-नानाशास्त्रार्थसोद्बोधशुद्धप्रसृतबुद्धयः । प्रसृता जंघा। यथा-प्रसरत्प्रसृताहतः। प्रमीतं प्रोक्षिते मृते। प्रमीयते स्म प्रमीतम्। वायलिंगः। प्रोक्षितं मखे हतं । यथा-प्रमीताः पशवो मखे । मृते यथा-भीष्मं भटैरप्रमितैः प्रमीतैः ॥२६७।। पर्यस्तं तु हते सस्ते। पर्यस्यते स्म पर्यस्तं । वाच्य लिग़ः। हते यथा-स्वहस्तपर्यस्तसमस्त* मु०म० यथेष्टे दोषे कृच्छे च पर्याप्तिः परिच्छेदे । प्राप्ते कामे प्रसृतो. ० प्र० निर्झरे ।