________________
तृतीयः काण्डः
(११९)
पक्षमूले प्रसूतिः स्यादपत्ये प्रसवेऽपि च । पद्धतिः पथि पंक्तौ च प्रकृतिर्योनिशिल्पिनोः ॥२६९।। पौरामात्यादिलिगेषु गुणसाम्यस्वभावयोः ।
प्रत्यात्पूर्षिकायां च प्रततिर्विस्तृतिलता ॥२७०।। शत्रुः । सस्ते यथा-पर्यस्तहारावलिः। प्रपात: सौप्तिके भृगौ। प्रपंत्यनेनास्मिन्वा प्रपातः। सौप्तिकं रात्रिधाटी। तत्र यथायस्य प्रपातभयतो निशि न प्रसुप्ताः। भृगुरद्रितटः। पर्वतो गिरिदेवोः । पर्वाणि सन्त्यस्य । मरुत्पर्वणस्त (७ । २ । १५) इति तः । पर्वति वा दृ सृ मृ भृ इत्यतः । गिरौ यथा-पर्वतेपरमाणौ च पदार्थत्वं व्यवस्थितं । देवौं यथा-द्वन्द्वं नारदपर्वतौ। पक्षतिः प्रतिपत्तिथौ । पक्षमूले । पक्षस्य मूलं पक्षतिः । पक्षातिरिति ति: (७।१ । ८९) स्त्रियां। द्वयोर्यथा-गगनसरसिचन्द्रो हंसवत्पक्षती द्वे ॥२६८॥ प्रसूतिः स्यादपत्ये प्रसवेऽपि च । प्रसूयते प्रसवनं वा प्रसूतिः । स्त्रियां । अपत्ये यथा-मत्प्रसूतिमनाराध्य प्रजेति त्वां शशाप सा। प्रसवे यथा-आस्तां तावदियं प्रसूतिसमये दुर्वारशूलव्यथा। पद्धतिः पथि पंक्तौ च । पादाभ्यां हन्यते पद्धतिः । हिमहतिकाषिये पदिति (३।२।९६) पदादेशः। स्त्रियां। पथि यथा-शिवपुरपद्धतिरेषा। पंक्तौ यथानेषाप्यत्र त्रियामारमणरुचिशुचिः पद्धतिौक्तिकानाम्। प्रकृतियोनिशिल्पिनोः । पौरामात्यादिलिंगेषु गुणसाम्यस्वभावयोः । प्रत्ययात्पूर्विकायां च। प्रक्रियतेऽनया प्रकृतिः। प्रत्यात्प्रथम क्रियते वा । अष्टस्वर्थेषु स्त्रियां। योनिरूपादानकारणं तत्र यथा-यामाहुः सर्वबीजप्रकृतिरिति । शिल्पिनि यथा-कृतज्ञाप्रकृतिः कुतः ॥२६९।। पौरेषु पुरवास्तव्येषु यथा - तथैव सोऽभूदन्न्वर्थो