________________
(१२०)
अनेकार्थसंग्रहः सटीकः
www
प्रवृत्तिवृत्तौ वार्तायां प्रवाहे *प्रार्थितं हते । याचिते शत्रुसंरुद्ध पार्वती द्रुपदात्मजा ॥२७१॥
राजा प्रकृतिरंजनात् । अमात्यादयः सप्तराज्यांगानि । यदमरः। स्वाम्यमात्यः सुहृत्कोशो राष्ट्रदुर्गबलानि च। राज्यांगानि प्रकृतयः। तत्र यथा-अथ वीक्ष्य रघुः प्रतिष्ठितं प्रकृतिष्वात्मजमात्मवत्तया । लिंगं स्त्रीपुंनपुंसकं । महदादिकं च। क्रमेण यथातृतीया प्रकृतिः षंढ: महदाद्याः प्रकृतिविकृतयः सप्त । गुणानां सत्वरजस्तमसां साम्यं गुणसाम्यं । तत्र यथा- बहिर्विकारं प्रकृतेः पृथग्विदुः । पुरातनं त्वां पुरुषं पुराविदः । स्वभावे यथा-विरराम महीयांसः। प्रकृत्या मितभाषिणः। प्रत्ययात्पूर्विकायां यथा-सोभवद्वारवधूसमागमः । प्रत्ययप्रकृतियोगसंनिभः। प्रततिविस्तृतिर्लता । प्रतननं प्रतन्यते वा प्रततिः। स्त्रियां । द्वयोर्यथापीव द्विपेन्द्रोऽयं पुष्पप्रततिभिर्वृतः ।। २७० ॥ प्रवृत्तिवृत्तौ
। प्रवाहे । प्रवर्त्तनं प्रवृत्तिः । स्त्रियां। वृत्तौ यथाप्रवृत्तिरासीच्छब्दानां चारितार्थाचतुष्टयी। वार्तायां यथाजीमूतेन स्वकुशलमयीं हारयिष्यन्प्रवृत्तिम् । प्रवाहे यथा-प्रवृत्तिरेषा भूतानाम् । प्रार्थितं हते । याचिते शत्रुसंरुद्धे । प्रार्थ्यते स्म प्रार्थितं । वायलिंगः । हते यथा-किमर्थं प्रार्थितः पशुः । याचिते यथा-भविष्यति प्रार्थितदुर्लभः कथं । शत्रुसंरुद्धे यथाअन्योन्यप्रार्थितैर्भटः । पार्वती द्रुपदात्मजा। शल्लको जीवनी गौरी । पर्वतस्येयं पर्वते भवा वा पार्वती। पार्वत्यवतारत्वाद्वा ।
.*मु० प्रचितः शकटोन्मेषे पलानामयुतद्वये । प्रकृतं तु प्रस्तुतेऽपि प्रकृतः
प्रकतिस्थिते ।