________________
तृतीयः काण्डः
(१२१)
शल्लको जीवनी गौरी पिंडितं गुणिते घने । पिशितं मांसं पिशिता मांसिका पीडितं पुनः ॥२७२।। बाधिते करणे स्त्रीणां यंत्रान्तर्मर्दितेऽपि च । *प्रोक्षितं सिक्तहतयोर्भरतः शबरे नटे ॥२७३।।
द्रुपदात्मजा द्रौपदी ॥२७१।। शल्लकी गजप्रिया । जीवनी मधुस्रवा। गौर्यां यथा-लीलाकमलपत्राणि गणयामास पार्वती । पिंडितं गुणिते घने । पिंड्यते स्म पिंडितम् । वाच्यलिंगः। गुणिते यथा-षष्टांशेन तु पिंडितं । घने यथा-भ्राम्यत्पिडितचंडिमा कथमहो नाद्यापि विश्राम्यति । पिशितं मांसं । पिंशति पिशितं । कुसिपिशीति किदितः । यथा - तृप्तस्तत्पिशितेन सत्वरमसौ तेनैव यातः पथा। पिशिता मांसिका। मांसिका गन्धद्रव्यं । पीडितं पुनः । बाधिते करणे स्त्रीणां यंत्रांतर्मदितेऽपि च । पीड्यते पीडितं ॥२७२।। बाधिते यंत्रान्तर्मदिते च वायलिंगः। बाधिते यथा-निद्रा तात कुतस्तेषां ये क(ऋणव्याधिपीडिताः। स्त्रीणां करणं वात्स्यायनप्रसिद्धं । यन्त्रांतर्मदिते यथा-वाचः श्रीकालिदासस्य पीडितेक्षुरसोपमाः । प्रोक्षितं सिक्तहतयोः । प्रोक्ष्यते स्म प्रोक्षितं । वायलिंगः सिक्ते यथा - कन्याभिः प्रोक्षितैर्वृक्षर्लक्षसो लक्षितं वनं । हतोऽर्थाद्यज्ञे यथा-मंत्रप्रोक्षितवालवर्करशिरः पूजोपहारैः क्षणात्। भरतः शबरे नटे। क्षेत्रे रामानुजे शास्त्रे दौप्यंतावृषभात्मजे । तंतुवाये। बिभर्ति भरतः। दृ पृ भृ इत्यतः । अष्टस्वर्थेषु शबरे नटे च यथा-पल्लीव भाति *मु० पुटितः स्यूतपाटिते। हस्तिपुटे (हस्तपुटे) पृषतस्तु मृगे विन्दौ खरोहिते। श्वेतबिन्दुयुतेऽपि स्यात्प्रेषितं प्रेरिते गते ।