________________
(१२२) अनेकार्थसंग्रहः सटोकः wwwwwwwwwwwwwwwwwwwwwwwwwwwwwww wwwww
क्षेत्रे रामानुजे शास्त्रे दौष्यंतावृषभात्मजे । तन्तुवाये भारतं तु शास्त्रद्वीपांशभिद्यपि ॥२७४॥ भारती पक्षिणीवृत्तिभिदोर्वाच्यथ भावितं ।
वासिते प्राप्ते भासंतो मे सूर्ये रम्यभासयोः ॥२७५॥ भरतैर्नवनाद्यशाला ॥२७३।। क्षेत्रे क्षेत्रविशेषे यथा-इहैव भरतक्षेत्र। रामानुजे यथा-मातुः पापस्य भरतः प्रायश्चित्तमिवाचरत् । शास्त्रं नाद्यशास्त्रं तत्र यथा-तदिति भरतविद्भिर्लक्षितं नाट्यलक्ष्म । दौष्यंतौ दुष्यंतापत्ये यथा-भरतः कार्तवीर्यश्च षडेते चक्रवर्तिनः । ऋषभ आदिनाथस्तस्य आत्मजः पुत्रस्तत्र यथा-अवाप केवल. ज्ञानं भरतो भरातधिपः । तन्तुवायः कुर्विदः। मुनिविशेषेऽपि यथा-अभ्यधाद्भरतो मुनिः। भारतं तु शास्त्रे द्वीपांशभिद्यपि । भरतानधिकृत्य कृतो ग्रन्थो भारतम्। अमोऽधिकृत्य ग्रंथे इत्यण् । भरतमेव वा भारतं। स्वार्थेऽण् । शास्त्रेऽण् । शास्त्रे यथा-सृष्टा गौरीदृशी येन भवे विस्तारिभारता । द्वीपांशभेदे यथा-एतेन भारतमिलावृतवद्विभाति ।।२७४॥ भारती पक्षिणीवृत्तिभिदोर्वाचि। भरतो विभ्रत इयं भारती। पक्षिणीभित् पक्षिणीविशेषः । वृत्तिभिदि यथा-कैशिक्यारभटी चैव सात्त्वती भारती तथा । वाचि वचने तद्देवतायां च यथा-तेषां भारति भारती सुरसरित्कल्लोललोलोम्मिभिः। अथ भावितं । वासिते प्राप्ते । भाव्यते स्म भावितं । वायलिंगः । वासिते यथाभावितं मृगमदेन तन्मधु । प्राप्ते यथा-भावितार्थैर्वनीपकैः । साक्षात्कृतोत्पादिताश्वस्तभक्तेष्वपि मंखः। साक्षात्कृते यथा - भावितात्मा भुवो भर्तुः । उत्पादिते यथा - तैस्तैर्वाक्यविबुधगदितैर्भाविता तस्य भक्तिः । आश्वस्ते यथा-भावितैः कतिपयैः