________________
तृतीयः काण्ड:
(१२३)
मथितं निर्जलघोले व्यालोडितनिघष्टयोः । मालती युक्तौ काकमाच्या जातीविशल्ययोः ॥२७६।। ज्योत्स्नायां निशि नद्यां च मुषितं खंडित हृते । मूछित सोच्छये मूढे रजतो दंतिदन्तयोः ।।२७७॥
पदातिभिः। भक्ते सेविते यथा-पुनः पुनश्चेतसि येन भावितं । भासंतो भे सूर्ये रम्यभासयोः। भासते भासंतः। तृ भूवदीत्यंतः। रम्ये वायलिंगः। भासः पक्षिभेदः। सर्वेषु यथा-द्यां भासयति भासंतः ॥२७५।। मथितं निर्जलघोले व्यालोडितवृष्टयोः । मथ्यते स्म मथितं । व्यालोडितनिघृष्टयोर्वायलिंगः। निर्जलघोले व्यालोडिते च यथा-युवतीकरनिर्मथितं मथितं पिब हे नृप सर्वरजापहरं । निघृष्टे यथा-मथितवंशसमुत्थितवह्निना । मालती युवतौ काकमाच्यां जातीविशल्ययोः । ज्योत्स्नायां निशिनद्यां च । मलते मालती। युतपित्तेति साधुः। गौरादित्वाड्डीः। सप्तस्वर्थेषु युवतिः स्त्री। काकमाचीविशल्या ओषधिः । जात्यां यथा-ते चोन्मीलितमालती सुरभयः प्रौढा: कदंबानिलाः॥२७६।। ज्योत्स्ना चन्द्रप्रभा । निशा रात्रिः। नद्यां नदीविशेषे यथा-मालतीतोरजष्टं कणः। मुषि(ण्डि)तं खंडित हृते । मुष्यते स्म मुषितं । वाच्यलिंगः। खंडिते यथा-अलिमुखमुषितसरोरुहमकरंदस्यंदसुरभिता सरसो। हृते यथा-सत्यं किं विधुरासि वत्स मुषिता केनाम्ब दुर्वेधसा । मूच्छितं सोच्छ्ये मूढे।मूर्छा संजाताऽस्य मूछितं । तदस्य संजातमितीतः । वायलिंगः । सोच्छ्रये यथा-चन्दनासक्तभुजगनिश्वासानिलमूर्छितः। मूढो जातमोहः। तत्र यथा-पपात मूर्छितः पृथ्व्यां। रजतो दंतिदंतयोः धवले शोणिते हारे दुर्वणे हदशैलयोः। रजत्यनेन रजतं पृषिरंजीति किदतः सप्तस्वर्थेषु । शैले पुंसि