________________
(१२४)
अनेकार्थसंग्रहः सटीकः
धवले शोणिते हारे दुर्वर्णे हदशैलयोः । रसित स्वर्णादिलिप्ते रुतस्तनितयोरपि ॥२७८॥ 'रेवती बलभार्यायां नक्षत्रभिदि मातृषु । रैवतः स्यादुज्जयंते सुवर्णालौ पिनाकिनि' ॥२७९॥
।।२७७।। धवले शोणिते च गुणे पुंसि तद्वति वायलिंगः । शेषेषु पुंक्लीबः। दंतिनो दंतौ दंतिदंतौ। तत्र यथा-नय राजन्ति राजानो रजतैरिव कुंजरा । धवले शोणिते च यथा-प्रतिफलति करौघे संमुखावस्थितायां । रजतकटकभित्तो सान्द्रचन्द्रासु गौर्याम् । हदे शैले च यथा-क्रीडन्ति कांताः रजतैश्च कान्तः। रसितं स्वर्णादिलिप्ते रूतस्तनितयोरपि । रसण आस्वादनस्नेहनयोः । रस्यते रसनं वा रसितम् । रसः संजातोऽस्य वा । स्वर्णादिलिप्ते वाच्यलिंगः । कनकरसितकुंभैः शोभते भूपवेश्म । रुतं वासितं तत्र यथा-सरसं सारसरसितं । स्तनिते मेघजिते यथा-मुहरन्न तस्य रसितैः पयोमुचः ॥२७८।। रेवती बलभार्यायां नक्षत्रभिदि मातृषु। रेवते रेवती। दृ पृ भृ इति बहुवचनादतः । नक्षत्रभिदि रेवतरो हिणेति ङीः। शेषयोस्तु रेरस्यास्तीति मतौ नाम्नीति वत्वे उदितत्वाङ्ङीः। बलभार्यायां यथा-रेवती दशनोच्छिष्टपरिपूतपुटे दृशौ । नक्षत्रभिदि यथा-सोमे न सौम्यं भृगुरेवती च । मातृषु यथा-स पुनर्जातमात्रोऽम्बारेवतीभिरगृह्यते। रेवतः स्यादुज्जयन्ते सुवर्णालौ पिनाकिनि । रायावतो रैवतः । उज्जयन्ते यथा-असौ गिरि रैवतकं ददर्श । सुवर्णालु: सुवर्णकरकपात्रिका तत्र यथा- रैवते न पयः पपौ। पिनाकिनि
१ मु० रमतिर्नायके स्वर्गे रमितं स्तनिते रुते । २ प्र० हरेऽसुरे ।