________________
अनेकार्थसंग्रहः सटीकः
चपेटे स्फारविपुले, पर्पटे चिपिटः पुनः । पृथुके पिच्चिततते चिरिष्टी तु सुवासिनी ॥१४९॥ तरुणी च जकृटस्तु, वार्ताककुसुमे शुनि । यमले व्यङ्गटो धौताञ्जन्यां शिक्यभिदीश्वरे ।।१५०॥
क्षत्रम्। चक्राटो धूर्ते दीनारे विषवद्ये । चक्रेण दम्भेन चक्र दम्भ वा अटति चक्राटः । धूर्ते वाच्यलिङ्गः । दीनारो नाणकविशेषः । अथ चर्पटः चपेटे स्फारविपुले पर्पटे । चरत्यनेन चर्यते वा चर्पट: । "कपटकीकटादयः" (उ०१४४) इति साधुः ॥१४८॥ चपेटे यर्था-कैटभश्चपेटैभिन्नः । स्फारमुद्भटं विपुलं विस्तीर्ण स्फारं च तद् विपुलं च स्फारविपुलम् । तत्र वाच्यलिङ्गः । पर्पटों भक्ष्यविशेषः । चिपिष्टः पुनः । पृथुके पिञ्चिततते । निशब्दात् नासानतितद्वतोरर्थयोः "नेरिनपिट" (७-१-१२८) इति पिट प्रत्यये चिपिटः । ततुल्यत्वाचिपिटः । पृयुके अभ्योषे यथा- चिपिटमवटकण्ठे सैरिका भक्षयन्ति । पिच्चितं कुट्टितं सत् ततं विस्तीर्ण पिच्चितततम् । तत्र वाच्यलिङ्गः । यथा-केचिंच्चिपिटनकुटा । चिरिण्टी तु सुवासिनी तरुणी · च । चिरेः सौत्रात् "टिंण्टश्चर् चं वा" (उ० १५०) इति चिरिण्टी। सुवासिनी शब्देन रुढ्या गृहिणी वृद्धाऽप्युच्यते इति मङ्खः ।।१४९॥ तरुणी द्वितीयवया सर्वांस्त्री। द्वयोर्यथा-कष्टं चिरिण्टी चिरकालनष्टा । जकुटस्तुं वार्ताका कुसुमे शुनि । यमले। जायते जकुट: । " नर्कुट कुक्कुट" (उ० १५५) इति साधुः । वाकिकुसुमे पुंक्लीबः । यमलं युग्मम । यङ्गटो धौताजम्यां शिक्यभिदीश्वरै । त्रीणि अङ्गानि अटति त्र्यगटः पृषोदरादित्वात् । धौताञ्जनी