________________
तृतीयः काण्डः
Annnnnnnr
wwwnnnnnr
कुरण्टो झिण्टिकाभेदे कुरण्टी दारुपुत्रिका । कुक्कुटः कुक्कुभे ताम्रचूडे वह्निकगेऽपि च ॥१४७॥ निषादशूद्रयोः पुत्रे, कृपीटमुदरे जले । चक्राटो धूर्ते दोनारे, विषवैद्येऽथ चर्पटः ॥१४८॥
विटाः । कीकट: कृपणे निस्वे देशभेदे तुरङ्गमे । ककते कोकट: । "कपटकीकटादयः" (उ० १४४) । इति साधुः । चतुर्वर्थेषु । कृपणो मितंपचः । निस्वो निर्धनः । तयोर्वाच्यलिङ्गः। द्वयोर्यथा-कीकटादानसङ्कटाः । देशभेदो मगधाख्यः । यदाह-कीकटा मगधाह्वयाः ॥१४६।। कुरण्टो झिण्टिकाभेदे रण्टि: सौत्रः । कुत्सितं रण्टति कुरण्ट: । झिण्टिका भेदः पीताकिटी । यन्निघण्टुः-सरेयके सहचरो झिण्टीमहाचरश्च सः । सतुरक्तः कुरुवकः स्यात्पीतस्तु कुरण्टकः । कुरण्टी दारुपुत्रिका । दारुमयीपुत्रिका दारुपुत्रिका । कुक्कुट:. कुक्कुभे ताम्रचूडे वह्निकणेऽपि च । निषादशूद्रयोः पुत्रे । कोकते कुक्कुटः । नर्कुटकुक्कुटो (उ० १५५) इति साधुः । कुक्कुभः कुम्भकारकुक्कुटः । ताम्रचूडे गुंक्लीबः । तत्र यथा-अयि विजहीहि दृढोपगू(ह) ढनं त्यज नवसङ्गमभीरु वल्लभम् । अरुणकरोद्गम एष वर्तते वरतनु संप्रवदन्ति कुक्कुटाः । वह्निकणः स्फुलिङ्गः । तत्र यथा-उड्डीनैः शतकोटिकुक्कुटशतैः ॥१४७॥ निषादशूद्रयोः पुत्र इति निषादाच्छूद्रायां यो जायते। कुक्कुटी मिथ्याचर्यादावपि । कृपीटमुदरे जले । कल्पते कृपीटम् । तृ कृ कृषि (उ०१५१) इति कीटः । उदरे यथा-गूढोद्भिन्नकृपीटपीढमकरोदंधासुरं यः शिवः । जले यथा-कृपाटयोनेरुदियाय तेजः । अत्र हि कृपीटं योनिरस्य कृपीटयोनिः। यत्स्मृतिः अद्भ्योऽग्निब्रह्मतः