________________
(६४) अनेकार्थसंग्रहः सटीकः
काके वाद्ये दुर्दुरुटे, नवश्राद्धेऽथ केर्कटः । कुलोरे करणे स्त्रीणां, राशौ खगेऽथ कर्कटी ॥१४॥ शाल्मलीफलवालुक्योः कार्यटो जतुकार्यिणोः ।
कोकटः कृपणे निस्वे, देशभेदे तुरङ्गमे ॥१४६॥ उच्चटादम्भे चर्यायां प्रभेदे लशुनस्य च। उच्चटति भिनत्ति उच्चटा । दम्भः कैतवम् । चर्या चरणम् । लशुनस्य प्रभेदो लशुनविशेषः करट: करिगण्डे स्यात्कुसुम्भे निन्द्यजीवने । काके वाद्ये दुर्दुरुटे नवश्राद्धे । करोति करट: । "दिव्यवि" (उ०१४२) इति अट: । केति शब्दं रटति वा । के शिरसि रटति वा । करिगण्डे यथा-अलिकुलसेवितकरटितटम् । कुसुम्भं रागद्रव्यम् । निन्द्यजीवनं कुत्सितवृत्तिः ।।१४४॥ दुर्दुरूटे दुर्मुखे वाच्यलिङ्गः । तत्र काके वाद्यभेदे च यथा - ते कर्णकोटिकटवः करटा रटन्ति । नवश्राद्धं प्रेतस्य एकादशाहश्राद्धम् । तत्र यथाकरटवटकभोजी लम्पटो विप्रखेट: । अथ कर्कट: । कुलीरे करणे स्त्रीणां राशौ खगे। काकः सौत्रः कर्कति कर्कट: । "दिव्यवि" (उ०१४२) इति अट: । कुलीरो जलचरभेदः । तत्र यथा-कर्कटसधर्मार्णो हि राजपुत्रा जनकभक्षाः। स्त्रीणां करणं वात्स्यायनप्रसिद्धम् । राशौ यथा-पुनर्वसुपाद एकः पुष्याश्लेषौ च कर्कटः । खगः पक्षिविशेषः । अथ कर्कटी ॥१४५।। शाल्मलीफलवालुक्योः । शाल्मली वृक्षभेदस्तस्य फलम् । वालुङ्की चिर्भटी । द्वयोर्यथा-दशनशकटकोट्या कर्कटीं त्रोटयन्ति । कार्यटो जतुकार्यिणोः । कारिणमटति कार्यट: । कार्याय वा अटति पृषोदरादित्वात् । जतु लाक्षा । कार्टी कार्यार्थी । तत्र वाच्यलिङ्गः । यथा-लम्पटा: कार्यटा