________________
तृतीयः काण्ड: ... (६३) अरिष्टं सूत्यगारेऽन्तचिह्न तके शुभेऽशुभे । अवटुर्गन्धुिघाटासूत्कटस्तोत्रमत्तयोः ॥१४३॥ उच्चटा दम्भचर्यायां, प्रभेदे लशुनस्य च ।
करटः करिगण्डे स्यात्कुसुम्भे निन्यजीवने ॥१४४॥ तेरिय: । नास्ति रिष्टं क्षेममत्र वा । लशुनं कन्दभेदः । निम्बफेनिलौ वृक्षौ । कङ्कः पक्षी । काके वायसे यथा-अरिष्टैरिव मूर्तस्तदरिष्टैर्वलितं गृहम् । . दैत्यविशेषेऽपि मङ्खः । यथादुष्टरिष्टकठोरकण्ठवलना विश्लिटकण्ठस्रजा ॥१४२॥ अरिष्टं सूत्यगारेऽन्तचिन्हे तक्रे शुभेऽशुभे । शुभमात्रेऽशुभमात्रे च क्लीबे । तद्वति वाच्यलिङ्गः । सूते प्रसवस्यागारं गृहं सूत्यागारं तत्र यथा-अरिष्टेशय्यां परितो विसारिणा सुजन्मनस्तस्य निजेन तेजसा । अन्तचिन्हे मरणचिन्हे यथा- पाण्मासिकमरिष्टं तत् । तके यथा-अरिष्टमिष्टं हि विशिष्टपुंसाम । शुभे यथा-अरिष्टाः सन्तु पन्थानः । अशुगे यथा - अरिष्टकर्मकार्येषु वर्जनीयं प्रयत्नतः । आसवभेदेऽपि मङ्खः । अरिष्टमिष्टैः सह सेवते सदा । अवटुर्गन्धुिघाटासु । अव्यते अवटुः । “अति गृभ्योऽदुः" (उ०७६२) घाटायां स्त्रीपुंसः । शेषयोः स्त्रियाम् । यदाह-अवटुः कथिता घाटा कूपगर्तेषु सूरिभिः । गतः श्वभ्रम् । अन्धुः कूपः । तयोर्यथा-अवटोनिकटे घटं घटं घाटा कृकाटिका । तत्र यथाअवटौ लकुटा हतः । उत्कटस्तीव्रमत्तयोः । अधिक उत्कटः । " सम्प्रोन्नेः संकीर्णप्रकाशाधिकसमीपे" (७-१-१२५) इति उदोऽधिकार्थे कट प्रत्ययः। उद्भिन्नौ कटावस्य वा वाच्यलिङ्गः। तीव्र यथा-कोपाटोपसमुद्भटोत्कटसटा कोटेरिभारेः शनैः । मत्ते यथा-मदोत्कटे रेचितपुष्पवृक्षा गन्धद्विपे वन्य इव द्विरेफाः ।