________________
(६२)
अनेकार्थसंग्रहः सटोकः
क्षेत्रज्ञावात्मनिपुणौ दोषज्ञः प्राज्ञवैद्ययोः । सर्वज्ञस्तु जिनेन्द्रे स्यात्सुगते शङ्करेऽपि च ।।१४१।। अवटः कपखिलयोर्गत कुहकजीविनि ।
अरिष्टो लशुने निम्बे फेनिले कंककाकयोः ॥१४२।। मैनाकः । तत्र यथा-ययौ महेन्द्रवित्रस्तो हिमजो हि महोदधौ । हिमजा पार्वती शढी । पार्वत्यां यथा-हिमजा महिमोत्सवे । शढी ओषधिभेदः ।।१४०।। अथ ज्ञान्ताः । क्षेत्रज्ञावात्मनिपुणौ । क्षेत्रं शरीरं पात्रं वा जानाति क्षेत्रज्ञः । निपुणे वाच्यलिङ्गः । आत्मनि यथा-क्षेत्रज्ञक्षेत्रयोर्भेदो विज्ञातव्यो विचक्षणैः । निपुणे यथा-क्षेत्रज्ञः कुरुते किञ्चिन्नाविचार्य हिताहिते । दोषज्ञः प्राज्ञवैद्ययोः । दोषं जानाति दोषज्ञः । वाच्यलिङ्गः । द्वयोयथा-बुद्धिमलरोगदोषज्ञः । खलेऽपि मंखः । यथा-गुणदोषौ गुणी वेत्ति दोषज्ञो दोषमेव हि । सर्वज्ञस्तु जिनेन्द्रे स्यात्सुगते शङ्करेऽपि च । सर्वं जानाति सर्वज्ञः । जिनेन्द्रे यथा-सर्वज्ञ एव हि जानाति परिणामं हि कर्मणाम् । सुगते बुद्धे यथाप्रणम्य सर्वज्ञमपेतविप्लवम् । शङ्करे यथा-देवं प्रणम्य सर्वज्ञ सृष्टिसंहारकारकम् ।।१४१।। अथ टान्ताः । अवट: कूपखिलयोगर्ते कुहकजीविनि । अव्यते अवट: । "दिव्यवि" (उ०१४२) इति अटः । चतुर्वर्थेषु । कूपे यथा-अन्धेनान्ध इवाकृष्टः पात्यते नरकावटे । खिले यथा-पाटयत्यवटं बटुः । गर्ते यथा-को नाम स्यादवटकुहरालोकनेव्यस्य कल्पः । कुहकमैन्द्रजालं तेन जीवति कुहकजीवी । तत्र वाच्यलिङ्गः । तत्र यथा-अवट: कपटे पटुः । प्रमत्तेऽपि मङ्खः । यथा-अवटाटङ्कसङ्केतनिकेतनसमाश्रयाम् । अरिष्टो लशुने निम्बे फेनिले कङ्क (दैत्य)काकयोः । न रिष्य