________________
owinnrn.rrrrrrrrrrrrrrrrr.
1000000mAAAAmr.
तृतीयः काण्डः (६१) वलजं गोपुरे सस्ये क्षेत्रसङ्गरयोरपि । सदाकारे वलजा तु पृथिव्यां वरयोषिति ॥१३८॥ वनजो मुस्तके स्तम्बेरमे वनजमम्बुजे । वनजा तु मुद्गपर्यों सहजः सहसम्भवे ॥१३९॥ निसर्गे च सामजस्तु सामोत्थे कुञ्जरेऽपि च ।
हिमजो मेनका पुत्रे हिमजा पार्वती शढी ॥१४०॥ वाच्यलिङ्गः। क्षेत्रे तात्स्थ्यात्सस्येऽपि च त्रिलिङ्गः । तयोर्यथात्वं समीरण इव प्रतीक्षितः कर्षकेण वलजां पुपूषता । गोपुरे पुरद्वारे यथा-रूरुधुर्वलजं बलात् । सङ्गरे सङ्ग्रामे यथा-न युद्धशौण्डा वलजे वलन्ते । सदाकारे भद्राकृतौ यथा-वन्द्यास्ते साधवो बलजाः। वलजा तु पृथिव्यां वरयोषिति । द्वोर्यथा-स्वबलैर्बलवन्तोऽपि युध्यन्ते वलजाकृते ॥१३८॥ वनजो मुस्तके स्तम्बेरमे । वनं जलम् अरण्यं वा तत्र जातो वनजः । मुस्तको मुस्ता । स्तम्बेरमे गजे यथा-वनजैरवनेर्जयः । वनजमम्बुजे । यथादीर्घष्वमी नियमिताः पटमण्डपेषु । निद्रां विहाय वनजाक्षवनायुदेश्याः । वनजा तु मुद्गपाम् । मुद्गपर्णी ओषधिः । सहजः सहसम्भवे । निसर्गे च । सहजायते सहजः । "क्वचित" इति डः । सह सम्भवे वाच्यलिङ्गः । तत्र यथा-सहजकालकूटशिक्षितक्रौर्येव लक्ष्मीः ॥१३९॥ निसर्गे स्वभावे यथा-सहजचापलदोषसमुद्धतः । सामजस्तु सामोत्थे कुञ्जरेऽपि च । साम्नो जातः सामजः । सामोत्थे वाच्यलिङ्गः। तत्र यथाराजा तु सामजं सन्धिं द्विषां न बहुमन्यते । कुञ्जरे यथादन्तादन्तैराहताः सामजानां जग्मुर्भङ्गं न स्वयं सामजाताः । हिमजो मेनकापुत्रे । हिमाज्जातो हिमजः । मेनकापुत्रो