________________
अनेकार्थसंग्रहः सटोक:
ANAVARAvr
जलजं कमले शङ्के नीरजं पद्मकुष्टयोः । । । परजोऽसौ तैलयन्त्रे क्षुरिका फलफेनयोः ॥१३६॥ बाहुजस्तु स्वयंजाते तिले क्षत्रियकीरयोः ।
भूमिजौ नरकाङ्गारौ भृमिजा जनकात्मजा ॥१३७॥ यथा-राजते गिरिजैः गिरिः । गिरिजा मातुलुङ्ग्युमा। मातुलुङ्गी बोजपूरी। उमायां यथा-अवोचद्यं पश्यत्यवतु स शिवः सा च गिरिजा ॥१३॥ जलजं कमले शङ्के । जले जायते जलजम् । कमले यथा-विहङ्गमानां जलजातपत्रैः। शङ्ख यथा-ततः प्रियोपात्तरसेऽधरोष्ठे निधाय दध्मौ जलज कुमारः । नीरज पद्मकुष्टयोः । नीरे जातं नीरजम् । निश्चितं रजत्यनेन वा। स्थादित्वात्कः । पद्मे यथा-ब्रीडयारुददिवालिविरावैर्नीलनीरजमगच्छदधस्तात् । कुष्टं गन्धद्रव्यविशेषः । परजेोऽसौ तैलयन्त्रो क्षुरिकाफलफेनयोः परं प्रकृष्ठं जयति जायते वा परञ्जः । "क्वचित्" इति डः । पृषोदरादित्वात् मोऽन्तः । असि: खड्गः । तैलयन्त्रं दारुमयम् । क्षुरिकाफलं कृपाणिका पत्रम् ॥१३६।। बाहुजस्तु स्वयंजाततिले क्षत्रियकीरयोः । बाहुभ्यां जातो बाहुजः । बहिर्जातो वा । पृषोदरादित्वात् । क्षत्रिये यथा-सम्प्रत्यस्य समस्तबाहुजभुजक्रोधस्य निर्वास्यतः। झुंदानो धनुरेन्दुशेखरमहो जातो भवानिन्धनम्। कीरः शुकः । भूमिजौ नरकाङ्गारौ । भूमेर्जातौ भूमिजौ । नरको नरकासुरः । अङ्गारो मङ्गलः । द्वयोर्यथा-को भूमिजान्नोद्विजते जनौघः । भूमिजा जनकात्मजा । जनकात्मजा सोता । तत्र यया-जनकः स निजां कन्यां ददौ रामाय भूमिजाम् । वलजं गोपुरे सस्ये क्षेत्रसङ्गरयोरपि । सदाकारे । बलते वलजम् । "वलन्तश्च वा” इति अजः । वलाज्जायते वा । सदाकारे